________________
T
& शेषः । कुटादित्वात डिवम् । कुटजी ॥ भिषेभिषभिष्णौ च वा॥ भिषेरजः प्रत्ययो भिषभिष्ण इत्यादेशौ चाम्य
वा भवतः। भिषिः सौत्रः । भिषजः । आदेशबलान गुणः । भिष्णजः वैद्यः । भेषजमौषधम् ॥ मुर्मुर च ॥ १३२ ॥ मुर्वे बन्धने इत्यस्मादजः प्रत्ययोऽस्य च मुरित्यादेशो भवति । मुरजः मृदङ्गः॥ बलेवोऽन्तश्च वा ॥ ३३॥ बल प्राण नधान्यावरोधयोरित्यस्मात् अजः प्रत्ययो वकारश्चान्तो वा भवनि । बल्बजः मुअविशेषः । बलजा सबुमो धान्यपुञ्जः ॥ उटजादयः ॥ उटजादयः शब्दा अजप्रत्ययान्ता निपान्यन्ते । वटेवस्योत्वं च । उटज मुनिकुटीरः। आदिशब्दात् भूजभरुजादयो भवन्ति ॥ कुलेरिजक् ।। १३५ ॥ कुल बन्धुसंस्त्यानयोरित्यस्मात् इजा प्रत्ययो भवति । कुलिज मानम्॥ कृगोऽअः ॥ १३६ ॥ करोतेरमा प्रत्ययो भवति । करनः वृक्षजातिः ॥ झमेझः ॥ १३७ ॥ अमू अदन इत्यस्मात् झः प्रत्ययो भवति । झञ्झा ससीकरो मेघवातः ॥ लुषेष्ठः ॥ १३८ ॥ लोष्टो मृतपिण्डः । नमितनिजनिवनिसनोलुक् च ॥ १३९ ॥ एभ्यष्टः प्रत्ययो भवति लुक चान्तस्य भवति । णमं महत्वे । नटः भरतपुत्रः । तनूयी विस्तारे । तटं कूलम् । जनैचि प्रादुर्भावे । जरा ग्रथितकेशसंघातः । वन पण संभक्तौ । वटः न्यग्रोधः । सटा अग्रथितः केशर्सपातः ॥ जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥ एभ्यष्टः प्रत्ययो दीर्घश्चषां गुणापवादो भवति । जनैचि प्रादुर्भावे । पणि व्यवहारस्तुत्योः । जाण्टः । पाण्यः। पक्षिविशेषावेतौ । किजू सौत्रौ । कीटः क्षुद्रजन्तुः । जूटः मौलिः ॥ घटाघाटाघण्टादयः॥ १४१ ॥ एते प्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च । घटा वृन्दम् । घारा स्वाङ्गम् | घण्टा वाद्यविशेषः । आदिग्रहणाच्छटादयो भवन्ति ॥ दिव्यविश्रुकुर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खित. कृसभृवृभ्योटः॥१४२॥ दिवूच क्रीडादौ । देवटः देवकुलविशेषः शिल्पी च । अव रक्षणादौ । अवटः प्रपातः कूपश्च । श्रृंट श्रवणे । श्रवटः छत्रम् । कुंक् शब्दे । कवरः उच्छिष्टम् । कर्ब गतौ । कर्बर्ट क्षुद्रपत्तनम् । शक्लंट शक्तौ । शकटम्