________________
turer
॥९३॥
"
वज्रः । बाहुलकान्न गुणः । शल गतौ । शलाहकः वायुः । दमृच् उपशमे । दमाहकः शिष्यः ॥ चण्डिभलिभ्यामातकः ॥ ८२ ॥ आभ्यानातः प्रत्ययो भवति चडुङ कोपे । चण्डावकं नर्तक्या दिवासः । भल्लि परिभाषणहिमादानेषु । भल्लातकः वृक्षः || श्लेष्मातकाम्रातका मिलातकपिष्टातकादयः ॥ ८३ ॥ एते आतकप्रत्ययान्ता निपात्यन्ते । लिर्मश्च परादिः । श्लेष्मानकः कफेलुः । अमेढेडी रचान्तः । आम्रातकः वृक्षः । नञः परस्य म्लायि च। अमिलातकम् वर्ण पुष्पम् । पिषेस्तोऽन्तश्च । पिष्टातकं वर्णचूर्णम् । आदिग्रहणात्कोशातक्यादयो भवन्ति ॥ शमि| मनिभ्यां खः ॥ ८४ ॥ शम्रच् उपशमे । शङ्खः कम्बुः निषिध । मनिंन् ज्ञाने । मङ्खः मागधः कृपणः चित्रपथ | मङ्खा मङ्गलम् || श्यतेरिच वा ॥ ८५ ॥ शच् तक्षणे इत्यस्मात् खः प्रत्यय इश्वास्यान्तादेशो वा भवति । शिखा चूडा ज्वाला च । विशिखा आपणः । विशिखः दाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्द्रः ॥ मुह पुनमूरौ च ॥ ८६ ॥ पूङ् पवने मुहौच् वैचित्ये इत्येताभ्यां वः प्रत्ययोऽनयोश्च यथासंख्यं पुन: मूर इत्यादेभवतः । पुङ्खः बाणबुन्धभागः मङ्गलाचारथ । मूर्खः अङ्गः ॥ अशेर्डित् ॥ ८७ ॥ अशौटि व्याप्तावित्यस्मात त् खः प्रत्ययो भवति । अद्भुत इति खमाकाशमिन्द्रियं च । नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् । उषेः क्रिल्लूक् च ॥ ८८ ॥ उषू दाहे इत्यस्मात् कित् खः प्रत्ययो लुक् चान्त्यस्य भवति । ओषन्त्यस्यामिति उखा स्थाली ऊर्ध्वक्रिया वा ॥ महेरुचास्य वा ॥ ८९ ॥ मह पूजायामित्यस्मात् खः प्रत्ययः कित् अन्तलुक् अकारस्य चाकारादेशो वा भवति । मुखमानम् । मखः यज्ञः अध्वर्युः ईश्वरथ ॥ न्युङ्खादयः ॥ ९० ॥ न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यते । नयतेः ख उन्चान्नः । न्युङ्खाः षढोङ्काराः । आदिग्रहणादन्येऽपि ॥ मयेषिभ्यामूखेख ॥ ९१ ॥ मयि गतौ एधि वृद्ध इत्याभ्यां यथासंख्यमूखेख इत्येतौ प्रत्ययौ भवतः । मयूखः
उणादयः
मक०
॥९३॥