________________
शी स्वप्ने । शयानकः अजगरः शैलश्च । निर्भीक भये । विभेत्यस्मादिति भयानकः भीमः व्याघ्रः वराहः राहुश्च । रा ँग् दीप्तौ राजानकः क्षत्रियः । टु धांग्क् धारणे च । धानकः हेमादिपरिमाणम् । लग्थ् छेदने । वानकः देश विशेषः दात्रं च । शिङघन्त्यनेनेति शिङ्खानकः । श्लष्मायुः पुरीषं च ॥ अर्डित् ॥ ७२ ॥ अणेर्डिदानकः प्रत्ययो भवति । अण शब्दे । आनकः पटहः || कनेरीनकः ॥ ७३ ॥ कनै दीप्तिकान्तिगतिषु इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः कनीनिका वाक्षितारका | गुङ ईधुकैधुकौ ॥ ७४ ॥ गु शब्दे इत्यस्मादीधुकधुक इत्येतौ प्रत्ययौ भवतः । गवीधुकं नगरम् धान्यजातिश्च । गवेधुका तृणजातिः ॥ धृतेस्तिकः ॥ ७५ ॥ वृतू वतने इत्यस्मात्तिकः प्रत्ययो भवति । वर्त्तिका चित्रकरोपकरणम् शकुनिः द्रव्यगुटिका च ॥ कृतिपुतिलतिभिदिभ्यः कित् ॥ ७६ ॥ एभ्यः कित्तिः प्रत्ययो भवति । कृतैत् छेदने । कृत्तिका नक्षत्रम् । पुविलती सौत्रौ । पुत्तिका मधुमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वाद्गोलत्तिका गृहगोलिका । अवपूर्वादवलत्तिका गोधा आळत्तिका गानप्रारम्भः । भिपी विदारणे । भित्तिका कुडयम् माषादिचूर्णम् शरावती च नदी । इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥ एभ्यस्तकक् प्रत्ययो भवति । इषत् इच्छायाम् । इष्टका मृद्विकारः । अशौटि व्याप्तौ । अष्टकाः श्राडतिथयस्तिस्रः अष्टम्यः पितृदेवत्यं च । मसैच् परिणामे । मस्तकः शिरः ॥ भियो द्वे च ॥ ७८ ॥ त्रि भीं भये इत्यस्मात्तक् प्रत्ययो भवति द्वे रूपे च भवतः । बिभीतकः अक्षः ॥ हरुहिपिण्डिभ्य ईतकः ॥ ७९ ॥ एभ्य ईतकः प्रत्ययो भवति । हंग् हरणे | हरीतकी पथ्या । रुहं जन्मनि । रोहीतकः वृक्षविशेषः । पिडु संघाते । पिण्डीतकः करहाटः ॥ कुषेः कित् कुपशू निष्कर्षे इत्यस्मात्किदीतकः प्रत्ययो भवति । कुषीतकः ऋषिः ।। बलिबिलिशलिदमिभ्य आहकः ॥ ८१ ॥ एभ्य आहकः प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः । बलाहकः मेघः वातश्च । बिलत् भेदने । बिलाहकः