________________
मन्मथः कामः ॥१२॥ गमेर्जम् च वा ॥१॥ गच्छति पादविवरणं करोति जङ्गमः च । गच्छत्यमाध्यस्थ्यं गङ्गमः चपलः ॥ अदुपान्त्यऋभ्यामश्वान्तः॥ १४ ॥ शलशलः । सलसलः । इलहलः । कलकलः । मलमलः । घटना । वदवदः । पदपदः। करकरः । मरमरः । दरदरः । सरसरः । वरवरः । अनुकरणशब्दा एते ॥ मषिमसेवा ॥ १५ ॥ मप हिंसायां । मषमषः । मष्मषः । मसैच परिमाणे । मसमसः । मम्मसः ॥१५|| हसफलिकराच ॥१६॥ हर हरणे । हरति नयति पाण्यस्खलन् लक्ष्यम् हराहरः योग्याचार्यः । सं गतौ । धावति वायुना नीयमानः समन्तात् मरासरः । सारङ्गः । फलनिष्पत्तौ । फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलमरण्यम् । कप हिसायाम् । कषति विदारयति कपाकपः कृमिजातिः ॥ इदुदुपान्त्याभ्यां किदिदतौ च ॥ १७ ॥ किलत् श्वैत्यक्रीडनयोः । किलिकिलः । हिलत् हावकरणे । हिलिहिलः । शिलत् उञ्छे । शिलिशिलः । छुरत छेदने । छुरुच्छुरः । मुरत् संवेष्टने । मुरुमुरः। घुरत भीमाशब्दयोः। घुरघुरः । पुरत अग्रगमने । पुरुपुरः । पुरख । ऐश्चयदीप्त्योः । सुरुसुरः । कुरत् | शब्दे । कुरुकुरः । चुरण स्तेये । चुरुचुरः । हुल हिंसासंवरणयोश्च । हुलहुलः । गुजत शब्दे । गुजुगुजः । गुडत् रक्षायाम् । गुडुगुडः । कुटत् कौटिल्ये । कुटुकुटः । पुटत् संश्लेषणे । पुटुपुटः । कुणन शब्दोपकरणयोः । कुणुकुणः । मुणत् पतिज्ञाने । मुणुमुणः । अनुकरणशब्दा एते ॥ जजलतितलकाकोलीसरीसृपादयः ॥ १८॥ एते अप्रत्ययान्ता निपात्यन्ते । जलं घात्ये । अस्य द्वित्वे पूर्वस्य भावः। जजलः। यस्य जाजलिः पुत्रः। तिला स्नेहने । अस्य दित्वे पूर्वस्य च तिभावे धातोरिकारस्याकारे विवलः । कुल बन्धुसंस्त्यानयोः । अस्य द्वित्वे पूर्वर च काभावे कालोली क्षीरकाकोलीति च वल्लीजातिः । सप्लं गतौ । अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीपावे सरीसृपः उरगजातिः । आदिग्रहणाद्यथादर्शनमन्येऽपि॥१८॥ बहुलं गुणी चादेः ॥१९॥ धातोः किदः प्रत्य
।