SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ऋफिङः । ऋफिड्डः । क्वचिद् भूतेऽपि । भसितं तदिति भस्म । कषितौऽसौ कषिः । ऋचन्ति तयेति ऋ । उक्तं च- संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्थ्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥ १ ॥ तथा बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेव तदूयं नैगमरूढिभवं हि सुसाधु ॥ २ ॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च ताकम । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ ३ ॥ ॥ अथणादिविवृतिः ॥ कृवापाजिस्वदिसाध्यशौ दृस्नास निजानिरहीपभ्य उण् ॥ १ ॥ सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुणू प्रत्ययः । करोति करति कृणोति वा कारुः कारी नापितादिः इन्द्र । वायुः नभस्वान् । पायुः अपानमुपस्थश्च । जायुः औषधं पित्तं वा । स्वयते इदमनेन वा स्वादुः रुच्यः । स्वदनं वा स्वादुः । उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा साधनोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः संयतः । उभयलोकफलं वा साधयति साधुः धर्मशीलः । अश्नुते तेजसा सबै केदारं वा इत्याशुः सूर्यो व्रीहिव । अशनं वा आशु क्षिमम । अश्नुते इति वा आशुः शीघ्रगामी शीघ्रकारी च । दरति दृणाति दीर्थते वा दारु काष्ठं भव्यं च । स्नायुः अस्थिनहनम् । सानु पर्वतैकदेशः । जानु ऊरुजङ्घा संधिमण्डलम् । जानीत्याकार निर्देशात् 'न जनवधः' इति प्रतिषिद्धापि वृद्धिर्भवि । राहुः सैंहिकेयः । एत्यायुः पुरुषः शकटम् औषधम् जीवनम् पुरूरवः पुत्रो वा । जरायुः गर्भवेनम् जलमलम् वा । जटायुः पक्षी । धनायुः देशः । रसायुः भ्रमरः ॥ अः ॥ २ ॥ सर्वस्माडातोर्यथाप्रयोगमकारः प्रत्ययो भवति । भवः । तरः । वरः । प्लवः । शयः । शरः । परः । करः । स्तवः । चरः । वदः ॥ म्लेच्छोडेर्हस्वश्व वा ॥ ३ ॥ मिलच्छः मूकः । म्लेच्छः कुमनुष्यजातिः । इड: ईडो देवताविशेषौ मेदिनी च । नमः क्रमिगमिशमि
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy