________________
स्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः । म्लादिभ्यः केचिदेवेच्छन्ति ॥ त्रसिगृधिघृषिक्षिपः क्नुः ॥ ५ । २ । ३२॥ शीलादिसदर्थात् । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्णुः ॥ सन्भिक्षाशंसेरुः || ५ | २ । ३३ ।। शीलादिसदर्थात् । चिकीर्षुः । भिक्षुः । आशंसुः ॥ विन्द्विच्छू || ५ | २ । ३४ ॥ शीलादिसदर्थाभ्यां वेत्तीच्छतिभ्याम्मुर्यथासंख्यं नृपान्त्यच्छादेशौ च निपात्येते । विन्दुः । इच्छुः ॥ गृवन्देरारुः ॥ ५ । २ । ३५ ।। शीलादिसदर्थात् । विशरारुः । वन्दारुः ॥ दाधेशिसदसदो रुः || ५ | २|३६|| शीलादिसदर्थात् । दारुः । घारुः । सेरुः । शत्रु: सद्रुः। ग्रहणाद्दारूपमिह शृह्यते न संज्ञा || शीश्रडानिद्रातन्द्रादधिपतिगृहिस्पृहेरालुः। ५ । २ । ३७ ॥ शीलादिसदर्थात् । शयालुः । श्रद्धालुः । निद्रालुः । तन्द्रालुः । निपातनात्तदो दस्य नः। तन्द्रेति सौत्रो वा । दयालुः । पतिगृहिस्पृहयोऽदन्ताचौरादिकाः । पतयालुः । गृहयालुः । स्पृहयालुः । मृगयतेरपि कश्चित् । मृगयालुः ॥ ङौ सासहिबावहिश्याच लिपप || ५ | २ | ३८ ॥ श्रीलादिसदर्थानां सहिवहिचलिपतीनां यङन्ताना ङौ सति यथासंख्यंमेते निपात्यन्ते । अत एव वचनादिरपि । सासहिः । वावहिः । चाचलिः । पापतिः। निपातनान्न्यागमाभावः ॥ सस्रिचक्रिदधिजज्ञिनेमि || ५ | २ | ३९ ॥ एते शीलादिसदर्थाः कृतद्विर्वचना स्प्रित्ययान्ता निपात्यन्ते । सरावीत्येवं शीलः सत्रिः । चक्रिः । दधिः । जज्ञिः । नेमिः । एत्वद्वित्वाभावो निपातनात् ॥ शृकमगमहनवृषभूस्थ उकण् ॥ ४ । २ । ४० ॥ शीलादिसदर्थात् । शारुकः । कामुकः । आगामुकः । घातुकः । वषुकः । भावुकः । स्थायुकः ॥ लषपतपदः ॥ ५ । २ । ४१ ॥ शीलादिसदर्थादुकणू । अभिलाषुकः । उत्पातुकं ज्योतिः । उपपादुका देवाः । योगविभाग उत्तरार्थः ॥ भूषाको धार्थजुगृधिज्वलशुचश्चानः ॥ ५ । २ । ४२ ।। शीलादिसदर्थात् लपपतपादः । भूषणः कुलस्य । क्रोधनः । कोपनः । जवतिः सौत्रो वेगाख्ये संस्कारै वर्त्तते । जवनः। सरणः। गर्धनः। ज्वलनः । शोचनः। अभिलषणः ।