________________
स्पष्टः । स्पाशित: । छन्नः । छादितः । ज्ञप्तः । ज्ञापितः ॥ इव सजपवमरुपत्वरसंधुषास्वनामः ॥ ४ । ४ । ७५ ॥ क्तयोरादिरिड् वा न । श्वस्तः । श्वसितः । विश्वस्तवान् २ | जप्तः २ । वान्तः २ । रुष्टः २ । तूर्णः २ । संघुष्टः २ । आस्वान्तः २ । अभ्यान्तः २ ।। हृषेः केशलोमविस्मयप्रतिघाते ॥ ४ । ४ । ७६ ।। क्तयोरादिरिइ वा । हृष्टा हृषिता वा केशाः । हृष्टं हृषितं लोमभिः । हृष्टो हृषितश्चैत्रः । हृष्टा हृषिता दन्ताः । केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते || अपचितः ॥ ४ । ४ । ७७ ॥ अपाध्यायः क्तान्तस्य इडभावश्चिश्च निपात्यते वा । अपचितः । अपचायितः ॥ तत्र वसुकानौ तद्वत् ॥ ५ । २ । २ ॥ परोक्षामात्रविषये धातोः परौ क्वसुकानौ तौ च परोक्षेव । तत्र क्वसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मनेपदत्वाद्भावकर्मणोरपि । शुश्रुवान् । पेचानः । बहुलाधिकारात् श्रुसदवसभ्यः कानो न भवति ॥ घसेकस्वरातः क्वसोः ॥ ४ । ४ । ८२ ॥ परोक्षाया आदिरिद्र । जक्षिवान् । आदिवान् । सेदिवान् । ऊषिवान् । पेचिवान् । ययिवान् । परोक्षाया इत्येव । विद्वान् । स्कट इत्यादिना सिद्धे एभ्य एव क्वसोदिरिट् इति नियमार्थ वचनम् ॥ गमहनविद्ल विशदृशोवा ॥ ४ । ४ । ८३ ॥ क्वसोरादिरिट् । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान्। दवान् ॥ वेयिवदनाश्वदनूचानम् ॥ ५ । २ । ३ ॥ भूते क्वसुकानान्तं कतरि निपात्यते । इणः क्ासुर्निपात्यते । ईयिवान् । समीयिवान् । नवोऽश्नातेः ववसुरिडभावश्च । अनाश्वान् । अनोर्वचेब्रे गादेशाद्वा कानः । अनूचानः । पक्षेऽद्यतन्यादिः । निपातनस्येष्टविषयत्वात्कर्तुरन्यत्र अनुक्तमित्याद्येव ॥ दाश्वत्सान्मीत् || ४ | १ | १५ || ते क्वाकृतद्वित्वादयो निपात्यन्ते । दाश्वान् । दाश्वांसौ । साह्रान् । मीहान् । शश्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ सदर्थाहातोः । यान् । शयानः । यास्यन् ॥ अतो म आने ॥ ४ । ४ । ११४ ॥ श्रविध्यमाणः ॥ पचमानः । अत इति