SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८॥नाम्नः पराद्धातोर्ययालक्ष्यम् । उखास्रत् । वहाभ्रट् । घज्युपसर्गस्य बहुलमिति बहुलग्रहणादुभयत्र दीर्घः । शकहूः । प्रतिभूः । केवलादपि । पाः । वाः । कीः । गीः॥गमां क्वौ ।। ४ । २ । ५९ ॥ गमादीनां यथादर्शनं क्वौ क्ङिति लुक् । जनगत् । संयत् । परीतत् । सुमत् | सुबत् ॥ क्वौ ॥ ४ । ४ । ११९ ।। शास आस इमू । मित्रशीः । आङः इतीसि आशीः ॥ छदेरिस्मन्त्रक्वौ ।। ४ । २ । ३३ ॥ णौ ह्रस्वः । छदिः । छद्मा छत्री । उपच्छत् ॥ सदिसूद्विषहदुइयुजविदभिद छिदजिनी राजिभ्यश्च । दिविषत् । भीरुष्ठानादित्वात् षत्वम् । अण्डसूः । प्रसूः । इत्यादि । ग्रामणीः । अग्रणीः ॥ स्पृशोऽनुदकात् ।। ५ । १ । १४९ ॥ नाम्नः क्विप् । घृतस्पृक् । अनुदकादिति किम् ? । उदकस्पर्शः ॥ अनुदक इति पर्युदासादनुपसर्गे नाम गृह्यते । तेनेह न । उपस्पृशति ॥ अदोऽनन्नात् ।। ५ । १ । १५० ॥ नाम्नः क्विप् । आमात् । अनन्नादिति किम ? | अन्नादः । क्विप्सिद्धोऽन्नप्रतिषेधार्थं वचनम् ॥ क्रव्यात्क्रव्यादावामपक्चादौ । ५ । १ । १५१ ।। क्विवणन्तौ साधू । क्रव्यात् आममांसभक्षकः । क्रव्यादः पक्वमांसभक्षकः । सिद्धौ प्रत्ययौ विषयनियमार्थं वचनम् ॥ त्यदाद्यन्य समानादुपमानाद् व्याप्ये दृशष्टक्र्सको च ॥ ५ । १ । १५२ ।। व्याप्ये कर्मणि वर्त्तमानात् व्याप्य एव क्विपू । स इव दृश्यते तादृशः । तादृशः । तादृक् । अन्यादृशः । अन्यादृक्षः । अन्याह । सदृशः । सदृक्षः । सदृक् । व्याप्ये वर्त्तमानादिति किम् ? । तस्मिन्निव दृश्यते । व्याप्य एवेति किम् ? । तमिव पश्यन्तीत्यत्र कर्त्तरि मा भूत् ॥ कर्त्तुर्णिन् ॥ ५ । १ । १५३ ॥ उपमानभूतान्नाम्नः । उष्ट्रक्रोशी । ध्वाङ्करावी ॥ अजातेः शीले ॥ ५ । १ । १५४ || नाम्नः पराद्धातोर्णिन् । उष्णभोजी । शीतभोजी । अजातेरिति प्रसज्यप्रतिधावाचिन उपसर्गादपि । प्रत्यासारी । अजातेरिति किम् ? । ब्राह्मणानामन्त्रयिता ॥ शील इति किम ? | उष्णभोज आतुरः ॥ साधौ ॥ ५ । १ । १५५ ॥ नाम्नः पराद्धातोर्णिन् । साधुकारी । साधुदायी । चारुनतीं ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy