________________
156ऊन
ढयतदन्ताव्यर्थेऽच्वेर्भुवः खिष्णुखुकञ् ॥५।१।१०८॥ अनग्नो नग्नो भवति नग्नंभविष्णुः । नग्नंभावुकः। पलितंभविष्णुः । पलितंभावुकः । प्रियंभविष्णुः । प्रियंभावुकः। अन्धविष्णुः । अन्धंभाषुकः । स्थूलभविष्णुः। म्थूलभावुकः। सुभगंभविष्णुः । मुभगंभावुकः । आढचभविष्णुः। आढयंभावुकः। तदन्तेभ्यः । | अननग्रोऽनप्रो भवति । अनग्नभविष्णुः । अनग्नभावुकः। मुनग्नंभविष्णुः। सुनग्नंभावुकः । अच्चेरिति किम् ? आढचीभविता ।। कृगः खन करणे ॥५।।१२९॥ नग्नादिभ्योऽनन्यन्तेभ्यश्वयर्थवृत्तिभ्यः । नग्नंकरणं द्यूतम् । पलितंकरणम । प्रियकरणम् । अन्धकरणम । स्थूलंकरण दधि । सुभगकरणम् । आढधकरणम् । सुनग्नकरणम् । अ-- फव्येरित्येव नग्नीकुर्वन्त्यनेन अत्र खननतिषेधसामर्थ्यादनडपि न । नहि नग्नीकरणमित्यत्र अनटखनटो रूपे समासे खियां ना विशेषोऽ स्ति । केचित्तु ग्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं धुतम् ।। भावे चाशिताभुवः खः ॥ ५।।१३०॥ करणे । आशितेन तृप्तेन भूयते भवता आशितंभवो भवतः । आशितो भवत्यनेन अशितंभवः । ओदनः ॥ नाम्नो गमः वडोच विहायस्तु विहः ॥५।१।१३१ ॥ खः ॥ तुरो गच्छति तुः । भुजङ्गः। प्लव बिहाः। तुरगः । भुजगः । प्वगः । विहगः । उरमा गच्छति उरगः । पोदरादित्वात् सलोपः । सुतं सतेन वा गच्छति सुतङ्गमो नाम इस्ती। मितङ्गमोऽश्वः । सुरगमोऽश्वः । भुजङ्गमः सर्पः । प्लवङ्गमो भेकः । विहामः नभसामच पक्षी । नभसशब्दोकारान्तोऽप्यस्ति । उरकम इत्यपि कश्चित्।।सुगदुर्गमाधारे।।१।१३२।। सुदुर्यों गमेराधारे । मुगः दुर्गः पन्थाः। असरूपत्वादनदपि। सुगमनः। दुर्गमनः। मुगमः। दुर्गमः इति तु कर्मणि निर्गों देशे ॥५।१।१३३॥ निःपूर्वाद्गमेराधारे डः॥ निगो देशः । देश इति किम । निर्गमनः ॥ शमो नाम्न्यः॥५।१।१३४ ॥ नाम्नः शंभयोऽईन् । शंकरोतीति शङ्करः । हेत्वादिष्वपि परबादयमेव । शङ्करा नाम परिवाजिका । नाम्नीति किम् ?।