SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ क्षेमकारः । प्रियंकरः प्रियकारः । मद्रंकरः । मद्रकारः । भद्रंकरः । भद्रकारः । भद्रात्केचिदेवेच्छन्ति । एभ्य इति किम ? | तीर्थकरः । स्वादिषु । तीर्थकरः तीर्थकार इत्यपि कश्चित् । खोधेति सिद्धेऽणग्रहणं हेत्वादिषु बाधनार्थम् । कथं योगक्षेमकरी लोकस्येति । उपदविधिषु तदन्तविधेरनाश्रयणात् । अत एव संख्यादिसूत्रे ऽन्तग्रहणेऽप्यनन्तग्रहणम् । उत्तरत्र च भयग्रहणेऽप्यभयग्रहणम् ॥ मेघन्तिभयाभयात्खः ॥ ५ । १ । १०६ ॥ कर्मणः कृगः । मेघंकरः । ऋर्तिकरः । भयं करः । अभयंकरः ॥ प्रियवशाद्वदः || ५ | १ । १०७ । कर्मणः खः । प्रियंवदः । वशंवदः ॥ द्विषंन्तपपरन्तपौ ॥ ॥ ५ | १ | १०८ ॥ द्विषत्पराभ्यां कर्मभ्यां परात् ण्यन्ताचपेः खो ह्रस्वत्वं द्विषत्तकारस्य मकारथ निपात्यते । द्विचन्तपः । परन्तपः । निपातनस्येष्टविषयत्वादिह न । द्विषतीतापः । अण्यन्तस्य च तपेने । द्विषत्ताषः ॥ परिमाणामितनखात्पचः ॥ ५ । १ । १०९ ॥ कर्मणः खः । प्रस्थंपचा स्थाली । द्रोणपचा दासी । पितपचा ब्राह्मणी । नखँपचा यवागूः ॥ कूलाभ्रकरीषात्कषः ॥ ५ । १ । ११० ॥ कर्मणः खः । कूलंकषा नदो अभ्रंषो गिरिः । करीषंकषा वाल्या || सर्वात्सह । ५ । १ । १११ ॥ कर्मणः कषः खः । सर्वेसहा मुनिः । सर्वकषः खलः ॥ भृष्टजितपदमेश्च नाम्नि ॥ ५ । १ । ११२ ॥ कर्मणः सहेः खः । विश्वंभरा वसुधा । पतिवरा कन्या । शत्रुञ्जयः पर्वतः । रथन्तरं साम । शत्रुन्तपो राजा । दमिरन्तर्भूनण्यर्थो ण्यन्तश्च । गृह्यते । बलिं दाम्यति दमयति वा बलिंदमः कृष्णः । शत्रुसहो राजा । नाम्नीति किम् ? । कुटुम्बभारः । केचित्तु रथेन तरतीत्यकर्मणोऽपीच्छन्ति ॥ धारैर्घच ॥५॥ १।११३||कर्मणः खः संज्ञायाम् । वसु धारयतीति वसुन्धरा पृथ्वी । युगन्धरस्तीर्थकरः ॥ पुरन्दर भगन्दरौ।।५।१।११४।। मंज्ञायां खान्तौ निपात्यते । पुरन्दरः शक्रः । भगन्दरो व्याधिः । दारयतेई स्वः पुरोऽमन्तता च निपात्यते । वाचंयमो व्रते ॥ ५ । १ । ११५ ॥ व्रते गभ्ये वाचः कर्मणः पराद्यमः खो वाचोऽमन्तश्च स्यात् । वाचंयमो व्रती । व्रत इति किम्
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy