________________
कर्त्तरि टक् । नगरघ्नो व्याघ्रः । अगज इति किम ? । नगरघातो हस्ती || राजधः || ५ | १ | ८८ ॥ राज्ञः कर्मणो इन्तेष्टक् घादेशश्च निपात्यते । राजघः ॥ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ।। टगन्तौ निपात्येते । पाणिघः ताडघः शिल्पी । पाणिना ताडेन च हन्तीति करणादपि केचित् । शिल्पिनीति किम् ? । पाणिघातः । वाडघातः । कुक्ष्यात्मोदराद् भृगः खिः ॥ ५ । १ । ९० ॥ कर्मणः । खित्यनव्ययारुषो मोऽन्तो ह्रस्वश्चेति मागमः । कुक्षिम्भरिः । आत्मंभरिः । उदरंभरिः । उदरात्केचिदवेच्छन्ति ॥ अर्होऽच् ॥ ५ । १ । ९१ ॥ कर्मणः । अणोऽपवादः । पूजार्हस्साधुः ॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद् ग्रहः ॥ ५ । १ । ९२ ।। कर्मणोऽच् । धनुर्ग्रहः । दण्डग्रहः । त्सरुग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् घटीग्रहः । अणपीत्येके । धनुग्रहः ॥ सूत्राडारणे || ५ | १ | ९३ ॥ कर्मणो ग्रहेरच् । सूत्रं कर्पासादिमयं लक्षणसूत्रं वा गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । अन्ये त्ववधारणे एवेच्छिन्ति । तन्यते सूत्रग्रहः प्राज्ञ एवोच्यते । धारण इति किम् ? । यो हि सूत्रं गृह्णाति न तु धारयति स सूत्रग्राहः ॥ आयु धृगोऽदण्डादेः || ५ | १ | ९४ ॥ कर्मणोऽच् । धनुर्धरः । शक्तिधरः । आदिग्रहणाद् भूवरः । बहुवचनायथादर्शनमन्येभ्योऽपि । अदण्डादेरिति किम् ? । दण्डधारः । कुण्डधारः हृगो वयोऽनुयमे ॥ ५ । १ । ९५ ॥ कर्मणो गम्येऽच् । प्राणिनां कालकृतावस्था वयः । अस्थिरः श्वशिशुः । कवचहरः क्षत्रियकुमारः । उद्यम उत्क्षेपणमाकाशे धारणं वा तदभावे । अंशहरो दायादः । मनोहरः प्रासादः । मनोहरा माला । वयोऽनुद्यम इति किम् ? । भारहारः ॥ आङः शीले ॥ ५ । १ । ९६ ॥ कर्मणो हरतेर्गम्येऽच् । शीलं स्वाभाविकी प्रवृत्तिः । पुष्पाणि आहरवीत्येवंशीलः पुष्पाहरः । आङ इति किपू ?| पुष्पाणि हर्त्ता । शील इति किम् ? । पुष्पाहारः । सुखाहर इत्यशीलेऽनुद्यमे पूर्वेणान् ।
1