________________
हेममभा॥ ७३ ॥ ते
। सातिः सौत्रो धातुः । सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः । अनुपसर्गादिति किम ? । प्रसाहयिता । छत्रधार इति परत्वादणेव || लिम्पविन्दः ॥ ५ । १ । ६० ॥ अनुपसर्गाच्छः । लिम्पिः । विन्दः। निग वादेर्नाग्नि ।। ५ । १ । ६१ ।। ययासंख्यं लिम्पविन्दःगः । निलिम्पा देवाः । गोविन्दः । कुविन्दः । अरविन्दः । नाम्नीति किम् ? । निलिपः ॥ वा ज्वलादिदुनीभूग्रहास्रोर्णः || ५ | १ | ६२ || अनुपसर्गाद्वा । ज्वलः । ज्वाल: । चलः । चालः । दवः । दावः । नयः । नायः । दुनीभ्यां नित्यमेवेत्येके । भवः । भावः । व्यवस्थितविभाषेयम् । तेन ग्राहों मकरादिः । ग्रहः सूर्यादिः । आस्रवः । आस्रावः । अनुपसर्गादित्येव । प्रज्वलः ॥ अवहसासंस्रोः ॥ ५ । १ । ६३ ।। णः । अवहारः । अवसायः । संस्रावः । स्रस्रव इत्यपि कचित् ॥ तन्व्यधीश्वसात्तः ॥ ५ । १ । ६४ ।। धातोः । तानः । उत्तानः । व्याधः । प्रत्यायः । अत्यायः । अतिपूर्वदेवेण इत्येके । श्वासः । अवश्यायः । प्रतिश्यायः । ग्लायः । ददः दधः इति तु ददिदध्योरचा सिद्धम् ॥ नृत्खवञ्जः शिल्पिन्यकः ॥ ५ । १ । ६५ ॥ कर्तरि । नर्त्तकः । नर्तकी । खनकः । अकङ्घिनोरिति न लुक् । रजकः । शिल्पिनीति किम् ? । नर्तिका ॥ गस्थकः ।। ५ । १ । ६६ ॥ शिल्पिनि कर्त्तरि || गायक: । गाङः प्रत्यये शिल्पी न गम्यते इति गायतेर्ग्रहणम् ।। टनण ।। ५ । १ । ६७ ॥ गायतेः शिल्पिनि कर्त्तरि । गायनः । गायनी । एतौ प्रत्ययावशिल्पिन्यपीत्येके || हः कालवीयोः ॥ ५ । १ । ६८ ॥ कष्टन | जहाति जहीते वा भावान् हायनः संवत्सरः । जहत्युदकं दूरोत्थानाव जिहते वा द्रुतम् हायना व्रीहयः || बोकः साधौ ॥ ५ । १ । ६९ ॥ वर्त्तमानात | साधु प्रवते इति प्रवकः । सरकः । लवकः । साधाfafa कि ? | मावकः ॥ आशिष्यकन् ॥ ५ । १ । ७० ॥ गम्यायां धातोः । जीवतादित्याशास्यमानो जीवकः । नन्दकः । जीवका । आशिषीति किम ? । जीविका ॥ तिक्कृतौ नाम्नि ॥ ५ । १ । ७१ ।। आशिषि तिकू सर्वे
कृदन्तमक्रिया
।। ७३ ।।