________________
परिह्कन्ता । परिष्कण्णः । परिस्कनः । केचित्तु परिपूर्वस्य स्कन्देरजन्तस्य घनन्तस्य वा प्राच्यभरतविषये प्रयोगे नित्यं षत्वमन्यत्र विकल्पमिच्छन्ति । माच्यभरतविषये प्रयोगे पत्त्राभावमन्यत्र विकल्पमिच्छन्त्यन्ये । तदुभयं नारम्भणी
। अनेनैव सिद्धत्वात् । नन्यादिभ्योऽनः ॥ ५ । १ । ५२ ॥ नामगणदृष्टेभ्यः । विशिष्टविषयार्थी रूपनिग्रहार्थेश्व सप्रत्ययपाठः । नन्दयतीति नन्दनः । वाशनः । मदनः । सहनः । रमणः । लवणः । सकन्दनः । सर्वदमनः । नर्दनः। बहुवचनमाकृतिगणार्थम् ॥ ग्रहादिभ्यो णिन् ॥ ५ । १ । ५३ ।। ग्राही । स्थायी । उपस्थायी । मन्त्री । गुणैश्विसे विशेते विसिनोति वा विशयी विषयी च प्रदेशः । निपातनात्वत्वम् । ग्रहादिराकृतिगणः ॥ नाम्युपान्त्यप्रोट्टशः कः ।। ५ । १ । ५४ ।। धातोः । विक्षिपः । विलिखः । बुधः । मियः । किरः । गिरः । झः । काष्ठभेद इति परत्वादण् ॥ वौ विष्करो वा ॥ ४ । ४ । ९७ ॥ वाच्ये निपात्यते । विष्किरः । विकिरो वा पक्षी । अन्ये तु विकिरश*दस्यापि प्रयोगः पक्षिणोऽन्यत्र नास्तीत्याहुः ॥ गेहे ग्रहः || ५ | १ | ५५ ॥ कः । गृह्णाति धान्यादिकमिति गृहम् । पुंसि गृहाः । दुर्गस्त्वेकवचनान्तमेवाह वात्स्थ्याद् गृहा दाराः ॥ उपसर्गादातो, डोऽश्यः ॥ ५ । १ । ५६ ॥ धातोः । आह्नः । मह्नः । प्रदः । प्रधः । उपसर्गादिति किम् ? । दायः । अश्य इति किम् ? । अवश्यायः । पूर्वेऽपवादा अनन्तरान् विधीन बाधन्ते नोत्तराम् इति णो बाध्यते नाणू । तेन गोसन्दायः । उपसर्गाणामव्यवधायकत्वादण् ॥ व्याघा. प्राणिनसोः ॥ ५ । १ । ५७ ।। यथासङ्ख्यं निपात्येते । विविधमाजिघति व्याघ्रः प्राणी । आजिघ्रति आघा नासिका ॥ घ्राध्मापाट्वेदृशः शः ॥ ५ । १ । ५८ ॥ जिघतीति जिः । विजिघ्रः । धमः । घ्रादि साहचर्यात् पिपतेर्ग्रहणं न पातेः । पायतेस्तु लाक्षणिकत्वान्नं भवति । पिवः । धयः । उद्धयः । उत्पइयः । थेष्टित्वादुयी । उपसर्गादेषेच्छन्त्यन्ये ॥ साहि सातिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् ॥ ५ । १ । ५९ ॥ शः । साहयतीति साहयः