________________
दिना विनीयः ककः । इलिमुल्क इति किम् ? । जेयम् । विपव्यम् । विनेयम् || पदास्वैरिबाह्यापक्ष्ये ग्रहः ॥ ५ । १ । ४४ ।। क्यप् । ध्यणोऽपवादः । प्रकर्षेण गृह्यत इति प्रगृद्यं पदम् । गृह्याः कामिनः । रागादिपरतन्त्रा इत्यर्थः । गामगृह्या श्रेणिः । बाह्येत्यर्थः । स्त्रीलिङ्गनिर्देश। ल्लिङ्गान्तरेऽनभिधानम् । त्वद्गृह्यः त्वत्पक्षाश्रित इत्यर्थः । गुणगृह्या: । अन्यत्र ग्राह्यं वचः । भृगोऽसंज्ञायाम् ॥ ५ । १ । ४५ ।। क्यप् । भृत्यः । पोष्य इत्यर्थः । असंज्ञायामिति किम् ? | भाय्यौ नाम क्षत्रियः । भार्य्या पत्नी । न च स्त्रियां भृगो नाम्नि इति क्यप् दुर्वार इति वाच्यम् । तस्य भाव एव विधानात् ॥ समो वा ।। ५ । १ । ४६ ॥ भृगः क्यप् । सम्भृत्यः । सम्भार्यः ॥ प्रेषानुज्ञावसरे कृत्यपश्चम्यौ ।। ५ । ४ । २९ ॥ भवता कटः काय्यैः । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसरः कटकरणे ॥ शक्ता है कृत्याश्च || ५|४|३५|| वोदुर्महः शक्तो वा वाद्यः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरि विजयसिंहसृरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारक श्री विजयने मिसूरिविरचितायां वृहद्धेमप्रभायां कृत्यमक्रिया ॥
णकतृचौ || ५ | १ | ४८ ॥ धातोः । पाचकः । पक्ता । पाठकः । पठिता । शमकः । दमकः । दायकः । दाता । एषः एषिता । एष्टा । लम्भकः । लब्धा । विद्युत्सकः। विद्युत्सिता । पापचकः । पापाचकः ॥ तुः || ४|४|५३ ॥ अनात्मनेपदविषयात् क्रमः परस्य स्वार्थाशित आदिरिद्र । क्रमिता । अनात्मन इत्येव । प्रक्रन्ता ॥ त्रने वा ॥ ४ ॥ ४ | ३ | विषयभूतेऽजेर्वी । प्रवेता । प्राजिता । प्रवयणः प्राजनो दण्डः । अनो वक्ष्यते ॥ अर्ह तृच् ॥ ५ । ४ ।