________________
OSASUNT
।शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भज्यम् । तप्यम् । लभ्यम् । गम्यम् ॥ आङो यि ॥४।४। १०४ ॥ लभः स्वरात्परः प्रत्यये नोऽन्तः। आलम्भ्या गौः । यीति किम् ? । आलब्धा । उपात्स्तुतौ 3 ॥४।४। १०५॥ लभः स्वरात्परो यादौ प्रत्यये नोऽन्तः । उपलम्भ्या विद्या । स्तुताविति किम् ? । उपलभ्या वार्ता । यजेर्गत्वप्रतिषेधाद् भजेश्च बाहुलकाद् ध्यणपि । याज्यम् । भाग्यम् । यजिभजिभ्यां नेच्छन्त्येके । असिवध्य इत्यादि तु न जनवध इति वृद्धिनिषेधे ध्यणा भविष्यति ॥ यममदगदोऽनुपसर्गात् ॥५।१। १३० ॥ यः । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् ? | आयाम्यम् । यमेग्रहणं नियमार्थम् । अनुपसर्गादेव यथा स्यात् । बहुवचनात्करणेऽपि माद्यत्यनेनेति मद्यम् । सोपसर्गादपि नियम्यम् । चरेराङस्त्वगुरौ॥५।१। १३१ ॥ अनुपसर्गाद् यः । चर्य भवता । आचर्यम् । आचर्यो देशः । अगुराविति किम् ? । आचार्यों गुरुः । वर्योपसर्यावद्यपण्यमुपेयर्नुमतीगटविक्रये ॥५॥१॥ ३२ ॥ यथासङ्ख्यं यान्तं निपात्यते । शतेन वर्या कन्या । सम्भक्तव्या मैत्रीमापादनीयेत्यर्थः । वृत्या ऽन्या । स्त्रीलिङ्गनिर्देशादिह न । वार्या ऋत्विजः । अन्यस्तु मुग्रीवो नाम वर्योऽसौ इति प्रयोगदर्शनात् पुल्लिङ्गेऽपीच्छति । सामान्यनिर्देशात्तदपि सङ्गृहीतम् । उपसर्या गौः । गर्भग्रहणे
माप्तकालेत्यर्थः । अन्यत्र उपसार्या । अवद्यं पापम् । गद्यमित्यर्थः । अनूद्यमन्यत् । कथमवाद्या निरुपपदाद ध्यण | ततो नसमासः। पण्यः कम्बलः । अन्यत्र पाण्यः साधुः ॥ स्वामिवैश्येर्यः ॥ ५।१।३३ ।। अः स्वामिवैश्य-६
योर्यों निपात्यते । अर्यः स्वामी वैश्यो वा । अन्य आर्यः॥ वद्य करणे ।। ५।१।३४ ॥ बहे: करणे यः स्यात । | वह्यं शकटम् । वाह्यमन्यत् ॥ नाम्नो वदः क्यपू च ॥५॥१॥ ३५॥ अनुपसर्गायः । ब्रह्मोयम् । ब्रह्मवद्यम् || नाम्न इति किम्?। वायम् । अनुपसर्गादित्येव । प्रवाद्यम् ॥ हत्याभूयं भावे ॥५१॥३६।। अनुपसर्गानाम्नः क्यबन्तं
SUS