________________
BROPE
[EBRUAGEKuvACHOOKSON
पि उपचारान्मेये वृत्तिः । मेय इति किम् । गोणी । इति समासाश्रयविधयः॥ ...
कत्तद्धितसमासैकशेषसनाचन्तधातुरूपाः पञ्च इत्तयः । परार्थाभिधापिनी वृत्तिः । विग्रहो दृश्यर्थमतिपादक वाक्यम् । स च लौकिकोऽलौकिकवेति द्विधा । लौकिको यथा, राज्ञः पुरुष इति । अयं साधुः परिनिष्ठितत्वात् । अलौकिकः, राजन् अस् पुरुष स् इति । अयश्च प्रयोगानईत्वादसाधुः । समासः कचित्रित्यः कचिद्वैकल्पिकश्च । अविग्रहः खघटकयावत्पदाघटितविग्रहो वा नित्यसमासः । यथा उन्मत्तगङ्गम् । हरौ इति अधिहरि । इत्यादि । तदितरो वैकल्पिकः। यथा राज्ञः पुरुषः, राजपुरुष इखादि । समासश्चतुर्डेति तु मायोवादः । बहुव्रीखव्ययीभावतत्पुरुषद्वन्द्वाधिकारबहिर्भूतानामपि विस्पष्टपद्धरित्यादीनां समासानां विधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुप्रीहिः । उभयपदार्थप्रधानो द्वन्दः । इयपि मवादःमायोऽभिमाय एव । शाकमति उन्मत्तगङ्गमित्यायव्ययीभावे निष्कौशाम्बिरित्यादी तत्पुरुषे त्रिचतुरा इत्यादिबहुब्रीही पाणिपादमित्यादिद्वन्द्वे च तत्त्वाभावात् । किन्तु वक्ष्यमाणरीत्या पविधाः समासाः स्याद्यन्तस्य स्याद्यन्तेन, राजपुरुषः । त्याचन्तेन, अनुव्यचलत् । नाम्ना, कुम्भकारः । धातुना, अजस्रम् । त्यांचन्तस्य त्याद्यन्तेन अश्नीतपिवता । स्यायन्तेन, कुरुकटः । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदख इन्दबहुबीखोरेव । तत्पुरुषस्य कचिदेव । बहुव्रीहिदिविषः । तद्गुणसंविज्ञानोऽतगुणसंविज्ञानश्च । अवयवार्थः क्रियान्वयी यस्य स आयः । यथा, लम्बकर्ण आगच्छतीति । तदितरो द्वितीयः, यथा, दृष्टसागरः । नात्रावयवार्थस्य क्रियान्वयिखम् ।। इति सर्वसमासशेषः॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामहरिविजयचरणकमलमिलिन्दायमानान्तवासिसंविमशाखीयतपोगच्छा..
चार्यश्रीविजयनेमिसूरिविरबितायां हेममभायां समासपकरणम् ॥
R
TRENDI