________________
हेमप्रभा.
जासिमास
करणम्.
COMASALUPULAOMPLAI
७३ ।। रेफादिमतः पूर्वपदामस्या पूर्वाद्धः अत्त इति किम् । निरहः । अह इत्यकारान्तनिर्देशादिह न । दीघोडी शरत् ॥ वोत्तरपदान्तनस्यादरयुवपकाहः ॥२।३।७५॥ पूर्वपदस्थाप्रवर्णावस्य णः। ब्रीहिवापिणी । बीहिवापिनौ । बीदिवापाणि । व्रीहिवापानि कुलानि । पाहिन्छन् । पाहिन्नन् । बहुलवचनादनाम्नापि समासः । समासे हि पूर्वोत्तरपदव्यवहारः । पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरगत्वानित्यं गत्वम् । बीहिवापेण । बीहीवा| पेन । अनन्त्यस्येत्यधिकारान, माषवापान् । उत्तरपदेवि किम् । गर्गभगिणी । अन्तेति किम् । गर्गमगिनी । नेह नकारोऽन्तः किन्तु कीमत्ययः । न चैवं माषवापिणीत्यत्र विकल्पो न पामोति नस्योत्तरपदत्वाभावादिति वाच्यम् । गतिकारकोपपदानामिति न्यायेन डीमत्ययात्मागेव समासात् । विभक्त्यन्तत्वाभावेऽपि रूढत्वादुत्तरपदत्तम् । अयुवपकार | इति किम् । आर्ययूना । अपकेन । दीर्घाही शरत् । अलचटसवर्गशसान्तर इसेव । गर्दभवाहिनौ ॥दूतोऽनव्ययवादी
घीयुवः पदे ।।२।४।९० ॥ इख उत्तरपदे । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ब्रह्मबन्धुपुत्रः२ । ईदत इति किम् । | खद्वापादः । अव्ययादिवर्जनं किम् । काण्डीभूतम् । शकहपुत्रः । कारीषगन्धीपुत्रः । गार्गीपुत्रः । श्रीकुलम् । भूकुलम्
॥ज्यापी बहुलं नानि ॥२।४।९९॥ उत्तरपदे इस्वः॥ भरणिगुप्तः । शिलवहम् । कचिदिकल्पः। रेवतिमित्रा । रेवतीमित्रः । कचिन, नान्दीमुखम् । फल्गुनीमित्रः ॥ त्वं ॥२।४।१००॥ च्यावन्तस्य बहुलं इस्वः। रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ।। भ्रुवोच कुंसकुव्योः ॥२।४।१०१॥हस्व उत्तरपदयोः। भ्रुकुंसः । भ्रकुंसः । कुटिः। भ्रकुटिः । भूकुंसभ्रकुटिशब्दावपीच्छन्त्यन्ये ॥मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२।४ । १०२ ॥ उत्तरपदे इस्वः । मालभारी । उत्पसमालभारी । मालभारिणी । इपीकतूलम् । मुझेपीकतूलम् । इष्टकचितम् । पकेटकचितम् । इदमेवान्तग्रहणं शापकम् । ग्रहणवता नाम्ना न तदन्तविधिरिति । तेन दिग्धपादोपहतः सौत्रनादिरित्यादि सिद्धम् ॥ गोण्या मेये ॥२।४।१०३ ॥ इस्वः। गोण्या मिता गोणिः । अस्य मानवाचित्वेड
BAMBRIDPUR-SPURURUPER
॥६३॥