________________
किं राजः ॥ पूजास्वतेः प्राक्टात् ॥ ७ । ३ । ७२ ॥ परं यहगादि तदन्तात् समासान्तो न । सुघूः । अतिधूः । पूजेति किम् । अतिराजोऽरिः । प्राक्टादिति किम् । स्वङ्गुलं काष्ठम् ॥ ऋक्पूः पथ्यपोत् ॥ ७ । ३ । ७६ ॥ समासादत्समासान्तः । अर्धर्चः । त्रिपुरम् । जलपथः । बहुपम् । पुरपथाभ्यां सिद्धे पुर्पयोरुपादानमेतद्विषयप्रयोगनिवृत्त्यर्थम् ॥ धुरोsनक्षस्य ॥ ७ । ३ । ७७ ॥ समासादत्समासान्तः । राजधुरा । अनक्षस्येति किम् । अक्षधूः । दृढधूरक्षः ॥ सङ्ख्यापाण्डूदक्कृष्णादुभूमेः ॥ ७ । ३ । ७८ ॥ समासादत्समासान्तः । द्विभूमम् । पाण्डुभूमम् । उदग्भूमम् । कृष्णभूमम् । सङ्ख्यादेः किम् । सर्वभूमिः । उपसर्गादध्वनः ॥ ७ । ३ । ७९ ।। अत्समासान्तः । प्राध्वो रथः ॥ समवान्धान्तसमः ॥ ७ । ३ । ८० ॥ समासान्तो ऽत् । तप्तरहसम् । अनुरहसम् । अवरहसम् ॥ प्रत्यन्ववात्सामलोम्नः ॥ ७ । ३ । ८२ ॥ प्रतिसामम् | अनुसामम् । अवसामम् । प्रतिप्रेमः । अनुलोमः । अवलोमः ॥ ब्रह्महस्तिराजपल्यादर्चसः ॥ ७ । ३ । ८३ ॥ समासान्तो ऽत् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्चसम् । कथं त्विषिमान् राजवर्चस्वीति । समासान्तविधेरनित्यत्वात् एतच्च ऋक्पूः पथ्यपोत् इति निर्देशात् सिद्धम् ॥ प्रतेरुरसः सप्तम्याः ॥ ७ । ३ । ८४ ॥ समासान्तो ऽत् । प्रत्युरसम् । सप्तम्या इति किम् । प्रत्युरः ॥ अक्ष्णोऽप्राण्यङ्गे ॥ ७ ॥ ३ । ८५ ।। समासान्तोऽत् । लवणाक्षम् । अप्राण्यङ्गे इति किम् । अजाक्षी || सङ्कटाभ्याम् ॥ ७ । ३ । ८६ । अक्ष्णः समासान्तो । समक्षम् । कटाक्षः । माण्यङ्गार्थं वचनम् ॥
।
॥ इति समासान्ताः ॥
ननाम्येकस्वरात् खित्युत्तरपदे मः ।। ३ । २ । ९ ॥ लुप् । स्त्रियं मन्यः । नावं मन्यः । श्रियं मन्यं कुलमित्यत्रात्मसमानाधिकरण श्रीशब्दस्य नपुंसके हत्त्यभावादाविष्टलिङ्गत्वाच नामो लोपः । अन्ये तु प्रष्ठादिवत्स्वलिङ्गखी