________________
हेमप्रभा.
समा
प्रकरणम्
PRASABHARASTRI
विधिन ॥ वृद्धो यूना तन्मात्रभेदे ।।३।१।१२४ ॥ सहोक्तौ शिष्यते । गायेय गाायणश्च गाग्यौं । वृद्ध किम् । गर्गगाायणौ । यूनेति किम् । गायेगौं । न चेत् प्रकृतिभेदोऽर्थभेदो वान्य इति किम् । मार्गवात्स्यायनौ । भागवितिभागविचिकौ ॥ स्त्री पुंवच ॥३।१।१२५।। वृद्धो यूना सहोक्तौ शिष्यते तन्मात्रभेदे । गागी च गा
ायणश्च गाग्यौँ । गार्गी च गाायणौ गर्गाः तान् गर्गान् ॥ पुरुषः स्त्रियाः ॥३।१।१२६ ॥ सहोक्तावेका | शिष्यते तन्मात्रभेदे । पुरुषशब्दः माणिनि पुंसि रूढः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । पुरुषः किम् । तीरं नदनदीपतेः | । तन्मात्रभेद इत्येव । स्त्रीपुंसौ ॥ ग्राम्याशिशुद्विशफसङ्घ स्त्री प्रायः॥३।१।१२७॥ स्त्रीपुरुषसहोक्तौ शिष्यते तन्मात्रभेदे । गावश्च स्त्रियो गावश्च नरा इमा गावः । ग्राम्येति किम् । रुरवश्वेमे रुरवश्चेमा इमे रुरवः । अशिश्चिति किम् । बर्कर्यश्च वर्कराश्च वर्कराः। द्विशफेति किम् । गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्के किम् । गौश्वायं गौश्चयमिमौ गावौ । प्रायः किम् । छाग्यश्च छागाश्च छागाः । तन्मात्रभेदे इत्येव । अजाविकम् । स्त्रीशेषार्थं वचनम् ।। क्लीवमन्यनैकं च वा ॥३।१।१२८ । सहोक्तावेकं शिष्यते तन्मात्रभेदे शिष्यमाणम् । शुक्लश्च शुक्लं च शुक्लं शुक्ले वा शुक्लश्च शुक्लच शुक्ला च शुक्लं शुक्लानि वा । अन्येनेति किम् । शुक्लं च शुक्लं च शुक्ले । तन्मात्रभेदे इत्येव । हिमहिमान्यौ । अत्र प्रवृचिनिमिचलक्षणार्थभेदोप्यस्तीति नैकशेषः॥
॥ इत्येकशेषः॥
॥अथ समासान्ताः॥ ॥ समासान्तः॥७।३।६९॥ विधास्यमानः प्रत्ययः तद्वहणेन गृह्यते । अधिकारोऽयम् ॥ न किमः क्षेपे॥७।३।७० ॥ परं यहगादि तदन्तात् समासात् समासान्तः। किन्धः। किसखा । क्षेपे इति किम् । केषां राजा