________________
हेमप्रभा.
समासप्रकरणम्.
॥५३॥
HIRAKANGRECONSCIOUGH
र्थानां युगपदभिधानं सहोक्तिः। उत्तरपदेन समुदायेन वा यर्तिपदार्थानिधानं सा सहोक्तिरित्यन्ये । वर्तिपदार्थानामेव सह क्रियादिसम्बन्धस्य यदाक्येनाभिधानं सा सहोक्तिरित्यपरे । एकविंशत्यादयः सङ्ख्यादन्दा एकवचनान्ताः समुदायसङ्ख्यैकत्वानुरोधात् । समाहारेऽपि चाशतात् द्वन्द्वे इति वचनात् स्त्रीलिङ्गाः ॥ धर्मार्थादिषु बन्वे ॥३। १ । १५९ ।। अमाप्तमात्वं वा माक् । धर्मार्थों । अर्थधौं । शब्दार्थों । अर्थशन्दौ । लघ्वक्षरासखीवुत्स्वराद्यदल्पस्वराय॑मेकम् ॥ ३ । १ । १६० ॥ द्वन्द्वे प्राक् । शरशीयम् । अग्नीयोमौ । वायुतोयम् । असखीति किम् । मुतसखायौ । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लवादीति किम् । कुक्कुटमयूरौ । मयूरकुक्कुटौ । एकमिति किम् । शङ्खदुन्दुभिवीणाः । द्वन्द्व इत्येव । विस्पष्टपटुः ॥ मासवर्णभ्रात्रनुपूर्वम् ॥३।१।१६१ ॥ द्वन्द्वे प्राक् । फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेवौ ॥ भर्तुतुल्यस्वरम् ॥३।१।१६२ ॥ द्वन्द्वेऽनुपूर्व प्राक् । अश्विनीभरणीकृत्तिकाः। हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति किम् । आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥ सङ्ख्या समासे ॥३।१।१६३॥ अनुपूर्व प्राक् । द्वित्राः। द्विशती। एकादश । समानामर्थेनैकशेषः ॥३।१। ११८॥ स्यादावसङ्ख्येयः॥३।१।११९ ॥ त्यदादिः॥३।१ । १२० ॥ एवैकः शिष्यते त्यदादिनान्येन च सहोक्तौ । स च चैत्रश्च तो। त्यदादीनां मियः सहोक्तौ स्पर्धे परमिति परमेव शिष्यते । स च यश्च यौ । अहं च सच त्वं च वयम् । बहुलाधिकारात कचित्पूर्वमपि । स च यश्च तौ । सीपुंनझुंसकानां सह वचने स्यात्परं लिङ्गमिति यथा प. रमेव लिङ्गं भवति । सा च चैत्रश्च तौ । सा च कुण्डे च तानि । स च कुण्डं च ते । परलिङ्गो द्वन्द्वोंऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गव न्याय्येति ते कुक्कुटमयू? ॥ पुष्यार्थाने पुनर्वसुः ॥३।१। १२९ ॥ सहोक्तौ व्यर्थः सन्नेकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । अर्थग्रहणात् तिष्यपुनर्वसू । समाहारे तु पुष्यपुनर्वसु । पुष्यार्थादिति किम् । आपुनर्वसवः । पुनर्वसुरिति किम् । पुष्यमघाभ इति किम् । पुष्यपुनर्वसयो बालाः स ।
K565963250MMMAR
॥५३॥