________________
असङ्ख्येयकालचक्रेषु यावन्तः समयाः भवन्ति तावन्त आकाशप्रदेशा अङ्गलासङ्ख्यातभागे वर्तन्ते । एतावत्सूक्ष्माः आकाशप्रदेशाः अपि लोके असङ्ख्येयाः एव । प्रत्येकम् एतादृशाऽऽकाशप्रदेशेष्वस्माभिरनन्तानि जन्ममरणानि कृतानि । हा ! कियत्कालं यावद् वयं संसारं भ्रान्ताः । यद्यधुनाऽपि हस्तायातम् अवसरं विस्मृत्य प्रमादः क्रियेत तदाऽनन्तभवाः भविष्यत्काले भ्राम्या एव ।
अतः भगवान् प्रतिपादयति यदुत - ‘समयं गौतम ! मा प्रमादं कृथाः ।' चेतयस्व जीव ! अप्रमादी भव । करु आराधनाम्, साधय स्वहितम्, तत एव मोक्षप्राप्तिः भविष्यति, तदैव जन्म-मरणानामन्तो भविष्यति । समर्पण-सहायतास्वाध्याय-सहिष्णुता-सरलता-समता-सौम्यतादिभिः संयमजीवनं सार्थकं कर्तव्यम् । 'न हि संयमजीवनं सुलभमि'ति विमृश्य सुलभेषु विषय - कषायादिष्वासक्तिं परिहत्य धर्मे चित्तं स्थिरीकुरु । Q.5 धन्यचरित्रम्
[Marks-2011 इह भरतक्षेत्रे दक्षिणदिग्विभागे श्रीप्रतिष्ठानपुरमासीत् । तन्नगराद् बहिः गोदावरी नदी वहति स्म । तस्मिन्नगरे जितशत्रुनामा राजा राज्यं करोति स्म । तत्र धनसारनामा श्रेष्ठी वसति । तस्य शीलवती प्रियाऽस्ति । तयोः क्रमेण त्रयोऽङ्गजाः- समजायन्त । आद्यः धनदत्तः नाम्ना, द्वितीयो धनदेवनामा तृतीयश्च धनचन्द्रनामकः । अमी त्रयोऽपि पुत्राः क्रमशः यौवनं प्राप्ताः पित्रा परिणायिताः । तेषां त्रयाणां क्रमेण धनश्री-धनदेवी-धनचन्द्रानाम्न्यः कान्ताः' समभवन् । अथ धनसारः स्वपुत्रान् समर्थान् दृष्ट्वा स्वगृहभारं तेषु निक्षिप्य स्वयं धर्मकरणतत्परोऽभवत् ।।
अथ तयोः दम्पत्योः एकदा चतुर्थः पुत्रः समजनि । तदा बालस्य नाभिनालस्थापनार्थं पिता भूमिं खनितवान्, भूमौ च सुवर्णनिधानं पित्रा दृष्टम् । धनसारः निधानं दृष्ट्वा एवं चिन्तितवान् - 'अयं बालः पुण्यवान् दृश्यते, यतः तस्य जन्म अपि मम लाभकारणम् अभवत् ।' अतः अस्य बालस्य गुणयुक्तं सान्वर्थं 'धन्यकुमार' इति नाम पिता स्थापयामास ।
18थम मावेस 2 ही७२। 3 ५२९॥वेद 4 पत्नीसी 5 हूंटीना नउने ६८ માટે 6 અર્થ સંગત स२१ संस्कृतम् - ४ . २०३ .
परीक्षा-४ ॐ