________________
दारिद्र्यात् स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति । अथैकदा द्वौ मुनी सागरपोताऽऽख्यवृद्ध श्रेष्ठिनो गृहे आहारार्थं प्रविष्टौ । आहारं च गृहीत्वा यदा तौ बहिः समागतौ तदा ताभ्यां सः भिक्षाचरः बालकः तस्य द्वारि स्थितो दृष्टः । तं दृष्ट्वैकेन मुनिनोक्तम्- 'भो मुने ! नूनमयं बालोऽस्य गृहस्य स्वामी भविष्यति । '
6
अथ “गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाकर्णितम् । तेन सः वज्राहत इव सञ्जातः । चिन्तितञ्च तेन 'अहो ! मया अनेकानि कष्टानि सोढ्वा अयं विभवः उपार्जितः । तस्य विभवस्य चाऽयं रङ्कः " स्वामी भविष्यति । गुरुवचनमलीकं नैव भवति । अतः एनं शिशुं केनाप्युपायेनाऽहं मारयामि तदा सुष्ठु स्याद्' इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चाण्डालपाटके 7 पिङ्गलाऽऽख्यचाण्डालस्य गृहे मुक्तवान् ।
Q.4 अनन्तानि जन्ममरणानि
[सुसमयरित्राशि- पृ. ४८] [Marks - 20] चतुदशरज्ज्वात्मकोऽयं लोकः भगवता प्रतिपादितः । प्रत्येकरज्जुः असङ्ख्येययोजनप्रमिता॰ वर्तते । लोके चाऽसङ्ख्येयाः आकाशप्रदेशाः सन्ति । आकाशं नाम' अवकाशदायकम् । तस्याऽतिसूक्ष्मः अंशः प्रदेशः भण्यते । स चाऽत्यन्तं सूक्ष्मः, तद्यथा" - कालस्याऽतिसूक्ष्मः अंशः समयः। अक्षिनिमेषमात्रेऽपि काले असङ्ख्येयाः समयाः व्यतीताः भवन्ति । एतादृशः सूक्ष्मः समय: । अधुना अङ्गुलाऽसङ्ख्येयतमभागे—2 यावन्तः आकाशप्रदेशाः सन्ति तैः समं कालस्य तुलना क्रियते ।
एक: आकाशप्रदेश: = एकः समयः इति कल्प्यते, अङ्गुलासङ्ख्येयभागवर्त्याकाशप्रदेशराशेः एकः आकाशप्रदेश: अपह्रियते कालराशेश्च एकः समय अपह्रियते, एवम् अपहारे अङ्गुलाऽसंख्येयभागस्थिताः आकाशप्रदेशाः तदा रिक्ताः भवेयुः यदा असङ्ख्येयानि कालचक्राणि व्यतीतानि स्युः । अर्थाद्
1 गरीजाईना सीधे 2 लीज भांगवी 3 भिखारी 4 गोजलो, गेलेरी 5 व४थी હણાયેલાની જેમ 6 રાંકડો 7 ચાંડાલના વાડામાં 8 યોજન જેટલો 9 એટલે 10 તે આ प्रमाणे 11 आंजनो पलारो 12 अङ्गुल = अंगूठानो पहेलो वेढी
सरलसंस्कृतम् - ४
• २०२ •
परीक्षा-४