________________
Q.6 जीवस्य संसारे भ्रमणम्
[Marks-2011 अनादिसंसारे भ्रमतां जीवानां सुदुर्लभो मानवभवः । यतो मानवभवभ्रष्टः कषायपरवशः जीवो निगोदादिषु अनन्तभवान् करोति, पश्चात् पृथ्वी-जलादिषु स्थावरेषु भ्रमति, पश्चाद् द्वीन्द्रियादिषु भ्रमति । इत्थं सर्वत्र भ्रामं भ्रामं बहूनि दुःखानि सहमानः कर्मणा पराभूतो जीवोऽकामनिर्जरया' पुण्योदयबलेन च पञ्चेन्द्रियत्वमाप्नोति । अनया रीत्या बहुकालाऽनन्तरमेव जीवः मनुजभवं प्राप्तुं प्रत्यलो भवति ।
तत्रापि आर्यदेशादिसंयमस्वीकारपर्यवसानानि वस्तूनि बहुदुर्लभानि सुमहार्घानि च । चिन्तामणिरत्नं प्राप्य को मूर्खः तत् प्रक्षिपेत् ? तद् वा अवमन्येत ?
दरिद्रावस्थामापन्नं मनुष्यं यदि कोऽपि श्रीमान् साहाय्यं कुर्यात्, बहूनि धन-धान्यादीनि यच्छेत्, गृहादीनपि दद्यात् तदा तस्य दरिद्रस्य तस्य उपरि कियान् बहुमानभावो विलसेत् ? ततोऽपि अधिको बहुमानभावः स्थाप्यो गुरोरुपरि । यतो गुरव एव संसारसागराद् रौद्राद् रक्षकाः, अन्यथा संसारे प्राणातिपातादीनि पापानि कुर्वन्तः वयं श्वभ्रम् एव गच्छेम ।
किं जानन्ति भवन्तः संसारिणः जीवस्य कीदृशी व्यलीका मनोरथमाला भवति ? पठ्यतामग्रेQ.7 संसारिजीवस्य मनोरथमाला
[Marks - 20] संसारिणः जीवाः इत्थं स्वचेतसि कल्पयन्ति - "परिणेष्याम्यहमनल्पयोषितः', ताश्च रूपेण पराजेष्यन्ति त्रिभुवनम्, सौभाग्येनाऽभिमुखयिष्यन्ति' मकरध्वजम् , विलासैः क्षोभयिष्यन्ति मुनिहृदयानि, कलाभिरुपहसिष्यन्ति' बृहस्पतिम्, विज्ञानेन रञ्जयिष्यन्ति अतिदुर्विदग्धजनचित्तानि । तासां चाहं भविष्यामि सुतरां हृदयवल्लभः । न लवयिष्यन्ति ताः कदाचिदपि ममाज्ञाम् । तथा भविष्यति मे विनीतो दक्षोऽवसरज्ञो परिकरः । तथा भविष्यन्ति मे
1849 विना हुभाने साउन ४२वाथी थती भनी नि२॥ 2 अत्यंत भिती 3 योषितः = स्त्रीमो / पत्नीसो 4 सामनो ४२शे 5 महेव 6 8:30 ઉડાડશે 7 અભિમાની પંડિત 8 પરિવાર है स२८ संस्कृतम् - ४ . २०४ .
पशक्षा-४ 3