________________
रूपसेन
।। ५८ ।।
| ममापि च कार्यसिद्धिर्भविष्यति तत् श्रुत्वा तयोक्तं हे भ्रातस्त्वदुक्तं मम प्रमाणमेव, अहमपि तथैव करिष्यामि ततः कुमारो मर्कटरूपो जातः, तं मर्कटं कपर्दिकाघुर्घरिकावस्त्रादिभिरलंकृत्य तेन सह कनकवत्याः प्रासादे गता. तत्र पुष्पादिप्राभृतं विधाय प्रणामं कुर्वती सा मालिनी कुमार्या पृष्टा, हे सखि एष मर्कटस्तु सुंदरी दृश्यमानोऽस्ति, तनं क्रीडाविनोदार्थं मह्यं समर्पय ? तत् श्रुत्वा मालिनी प्राह, हे स्वामिनी सर्वमपि त्वदायत्तमेवास्ति, परमयं मर्कटस्तु मम वाटिकाया रक्षकोऽस्ति मम भर्तुरपि स प्राणप्रियोऽस्ति मे बालका अपि चैतेन सह क्रीडां कुर्वति, तेन स तुभ्यं कथमर्पयितुं शक्यते ? तदा कुमारी प्राह त्वं किमपि द्रव्यं गृहाण ? परं ममैनं मर्कटमर्पय ? येन मे दिनानि सुखेन यांति ततः कुमार्या तस्यै मालिन्यै एको दीनार एका च वर्या शाटिका दत्ता, एवमतीवाग्रहतो मालिन्यापि तस्यै मर्कटो दत्तः ततो मालिनी स्वमंदिरे गता, कुमारी च सकलं दिनं यावत्तेन मर्कटेन सह क्रीडाविनोदं चकार. अथ संध्यासमये यदा सर्वो दास्यादिपरिवारः स्वस्वस्थानके प्राप्तस्तदा स मर्कटो मूलिकामाघाय यथावस्थितरूपो रूपसेनकुमारो जातः; तं दृष्ट्वा चकितया कुमार्या चिंतितमहो किमिदमाश्चर्य! किवेंद्रजालं! किंवा कोऽपि स्वप्नभ्रमः ! ततः सा लज्जया स्ववस्त्रांग संवरणं विधाय देवमिवागतं स्वपतिं ज्ञात्वा
चरित्रम्
।। ५८ ।।