________________
रूपसेन
॥ ११ ॥
| प्रतोल्यां द्वारपालेन पृष्टः, भो कुमार अब रात्रो त्वं क्व गच्छसि ? गमनकारणं च कथय ? नृपादेशं विना त्वां गंतुं न दास्यामि यतः -
आज्ञाभंगो नरेंद्राणां । वृत्तिच्छेदो द्विजन्मनां ॥ पृथक् शय्या च नारीणा-मशस्त्रो वध उच्यते ॥४०॥ तत् श्रुत्वा कुमारेणैकः स्वर्णदीनारस्तस्मै दत्तः, तदा हृष्टेन द्वारपालेन स किमप्यनापृच्छ्य प्रतोल्या | बहिष्कृतः द्रव्येण सर्वः कोऽपि वशीभवति अथ कुमारोऽपि पवनवेगाश्वारूढोऽग्रे चलितो बहुदूरं वनं प्राप्तः, तत्र च तेनैको जिनप्रासादो दृष्टः तं च स त्रिःप्रदक्षिणीकृत्यांतः प्रविष्टः, तत्र च तेन सर्वविघ्नहरी सर्वसौख्यकरी व श्रीपार्श्वप्रभोमूर्तिर्दृष्टा मुदितः सन् स तां प्रणम्य चैत्यवंदनं कर्तुं लग्नः - सुप्रभातः सुदिवसः । कल्याणं मेऽद्य मंगलं ॥ यद्वीतराग दृष्टोऽसि । त्वं त्रैलोक्यदिवाकर ॥ ४१ ॥ ॐ नमः पार्श्व नाथाय । विश्वचिंतामणे प्रभो । ॐ धरणेंद्रवैरोट्या - पद्मादेवीयुताय ते ॥ ४२ ॥ एवं श्रीगुर्वाम्नाय पूर्वकं मंत्रबीजयुतं श्रीपार्श्वनाथस्तवं कृत्वा रूपसेनस्ततः पुनरग्रे प्रस्थितः एवं तेन षोडशप्रहरान् यावत्तुरंगारूढेन गमनं कृतं, ततोऽसो तुरंगमं श्रांतं विज्ञाय वने मुक्त्वा स्वयं च क्षणमेकं तुंगगिरिसमीपे सहकारवने विश्रांतः. इतो मन्मथराज्ञा रूपसेनकुमारं नगरमध्येऽनालोक्य तस्य शुद्धये सर्वत्र परितः स्व
अनन
चरित्रम्
॥ ११ ॥