________________
रूपसेन
॥ १० ॥
| परदोषान् वदंत्येव, यतः - यदि काको गजेंद्रस्य । विष्टां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य । यो गजो गज एव सः ॥ ३३ ॥ जगति ये दुर्जनाः संति तेषां परदोषग्रहणेनैव हर्षः, यतः - बज्झइ वारि समुदह । | बज्झइ पंजर सींह || पण बांधी केणे कही । दुज्जणकेरी जीभ ॥ ३४ ॥
परापवादनिरतो । मातुरप्यधिकः खलः ॥ माता मलं हि हस्तेन । खलः क्षालति जिह्वया ||३४|| तं नत्थि घरं तं नत्थि । देउलं राउलंपि तं नस्थि || जत्थ अकारण कुविया । दो तिन्नि खला न दीसंति ॥ ३६ ॥ अतो हे कुमार ! लोकानां वचनैस्त्वया मनसि किमपि नानेयं. इत्युक्त्वा स सुहृत्स्वगृहे गतः. अथ तेन रूपसेनकुमारेण चिंतितं लोका अत्र मां हसंति, केवलं मम दोषमेव जल्पति, तन्मेऽत्र स्थातुं युक्तं न मानं हि महतां धनमिति हेतोरहमत्र सर्वथा न स्थास्यामि, अथाहं विविधदेशान् विलोक्य स्वभाग्य पुण्यपरीक्षां करिष्यामि, पुण्यप्रसादात् परदेशेऽपि मम सुखमेव भविष्यति, यतः - सर्वत्र वायसाः कृष्णाः । सर्वत्र हरिताः शुकाः ॥ सर्वत्र सुखिनां शर्म । दुःखं सर्वत्र दुःखिनां ॥ ३८ ॥ तेन परदेशगमनेनैवोत्तमानां महत्त्वं स्यात्, यतः - हंसा महीमंडलमंडनाय । यत्रापि तत्रापि गता भवंति ॥ हानिस्तु तेषां हि सरोवराणां । येषां मरालैः सह विप्रयोगः || ३९ ॥ इति विचित्य स रात्रो गच्छन्
चरित्रम्
॥ १० ॥