________________
ॐ ह्रीं अहँ नमः । ॐ ह्रीं श्रीशङ्केश्वरपार्श्वनाथाय नमः ।
ऐं नमः ।
न्यायविशारद-न्यायचार्यपदप्रतिष्ठित-महामहोपाध्याय
श्रीमद्यशोविजयगणिरचितटिप्पणसहितानि, श्रीभोजदेवकृतराजमार्तण्डवृत्तिसमेतानि च
॥ पातञ्जलयोगसूत्राणि ॥
(भाग-१)
प्रथमः समाधिपादः ॥
सूत्र:
अथ योगानुशासनम् ॥१-१॥ सूत्रार्थ :
યોગના લક્ષણ, ભેદ, ઉપાય અને ફલો વડે જેના દ્વારા વ્યાખ્યાન કરાય તે યોગનું અનુશાસન છે. II૧-૧થી
राजमार्तण्डः देहाप्रयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥१॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् ।। प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥२॥