________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ
श्लोकार्थ :
આથી આ સ્થાનથી હું જાઉં, અપર ચિંતા વડે મને શું ? તેથી તે જડને હાથથી ખેંચીને આ= वियक्षरा, वा माटे प्रवृत्त थयो. पा
श्लोक :
૧૦૦
तेन चाऽऽकृष्यमाणोऽसौ कथञ्चिद् बलिना जडः । हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः ।। ६० ।।
श्लोकार्थ :
અને તેના વડે=વિચક્ષણ વડે, હાથથી ખેંચાતો એવો આ જડ કોઈક રીતે બલવાન વડે હરણ કરાયેલા સર્વસ્વની જેમ મોહથી અત્યંત દુઃખને પામ્યો. II૬૦।।
श्लोक :
यावत्तौ गच्छतः स्तोकं, भूभागं राजपुत्रकौ ।
तावत्साऽनुचरी तस्याः, पश्चाल्लग्ना समागता । । ६१ ।।
श्लोकार्थ :
જ્યાં સુધી થોડાક ભૂભાગ તે રાજપુત્ર ગયા, ત્યાં સુધી તેણીને તે અનુચરી=તે લલનારૂપી जाणानी सेविका, पाछ्न लागेली जावी. ||११||
"
तया च दूरतः एव विहितः पूत्कारः, यदुत - त्रायध्वं भो नाथास्त्रायध्वं, हा हताऽस्मि मन्दभागिनी, ततो वलितस्तदभिमुखं जडः । तेनाऽभिहितं - सुन्दरि ! मा भैषीः कथय कुतस्ते भयमिति । तयाऽभिहितं - यद्भवन्तौ मम स्वामिनीं विमुच्य चलितौ तेनैषा जातमूर्च्छा म्रियते लग्नाऽधुना, तस्माद् देवौ! तावत्समीपे स्थीयतां भवद्भ्यामेतस्याः येन युष्मत्सन्निधानेन मनाक्स्वस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला सती भवतोरेतत्स्वरूपं समस्तं विज्ञपयामि । ततो जडेनाऽभिहितो विचक्षणःभ्रातः ! गम्यतामेतत्स्वामिनीसमीपे भवतु सा स्वस्था, विज्ञपयत्वेषा यथाविवक्षितं, को दोषः ? विचक्षणेन चिन्तितं-न सुन्दरमिदं, इयं हि वष्टा चेटी तरला स्वभावेन प्रतारयिष्यति नूनमस्मान्, अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति ? न चाहमनया प्रतारयितुं शक्यः, तस्माद् गच्छामि, काऽत्र मम शङ्का ? एवं विचिन्त्याऽभिहितं विचक्षणेन - भ्रातः ! एवं भवतु । ततो गतौ पश्चान्मुख विचक्षणजडौ, प्राप्तौ तत्समीपे, स्वस्थीभूता ललना, निपतिता दासचेटी तयोश्चरणेषु । अभिहितमनयामहाप्रसादः, अनुगृहीताऽस्मि युवाभ्यां जीविता स्वामिनी, दत्तं मे जीवितम् । जडेनाऽभिहितंसुन्दरि ! किंनामिकेयं तव स्वामिनी ? चेट्याऽभिहितं - देव ! सुगृहीतनामधेया रसनेयमभिधीयते ।