SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ __ततो मयाऽभिहितं-भद्र! न कर्त्तव्योऽत्र भवता कोपः, पथिकः खल्वहं, श्रुतश्च मयापि महामोहः पूर्वं सामान्येन, न पुनर्विशेषतो रागकेसरिजनकतया तदधुनाऽपनीतं ममाज्ञानं भद्रेण, तदुत्तरवृत्तान्तमप्याख्यातुमर्हति भद्रः । તેથી=વિપાકે પ્રભાવને કહ્યું કે મહામોહ જગતત્રયમાં પ્રસિદ્ધ છે માટે તેના વિષયમાં પૂછવું ઉચિત તથી તેથી, મારા વડે=પ્રભાવ વડે કહેવાયું - હે ભદ્ર ! આમાં=મારા પ્રશ્નમાં, તારા વડે કોપ કરવો જોઈએ નહીં. ખરેખર હું પથિક છું, મારા વડે પણ પૂર્વમાં સામાન્યથી મહામોહ સંભળાયેલો પરંતુ વિશેષથી રાગકેસરીના પિતાપણાથી સંભળાયું ન હતું, ભદ્ર એવા વિપાક વડે મારું અજ્ઞાન દૂર કરાયું તે કારણથી, ભદ્ર ઉત્તરના વૃત્તાંતને પણ કહેવા માટે યોગ્ય છે=રાગકેસરી વૃદ્ધ એવા મહામોહ રૂપ પિતાને પાદપતન કરવા ગયો ત્યારપછી શું થયું તે રૂપ ઉત્તરના વૃતાંતને કહેવું જોઈએ. महामोहरागकेसरिविषयाभिलाषादीनां युद्धार्थं प्रस्थानम् विपाकेनाभिहितं-ततो गतो देवः शीघ्रं जनकपादमूलं, दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रूयुगलेन अविद्याभिधानया प्रकम्पमानया गात्रयष्ट्या जराजीर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः । ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं, अभिनन्दितो महामोहेन, निषीदतश्च भूतले देवस्य दापितं महामोहेनासनं, उपाविष्टस्तत्र जनकसंभ्रमवचनेन देवः, पृष्टा शरीरकुशलवार्ता, निवेदितश्च प्रस्तुतव्यतिकरः । ततो महामोहेनाभिहितं पुत्र! ममाधुना जरच्चीवरस्येव पश्चिमो भावो वर्त्तते, ततो मदीयशरीरस्य पामापरिगतमूर्तेरिव करभस्य यद्वाह्यते तत्सारं, ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तुं, तिष्ठ त्वं विपुलं राज्यं विधानो निराकुलचित्तः, अहमेव प्रस्तुतप्रयोजनं साधयिष्यामीति । देवेन को पिधायाभिहितं-तात! मा मैवं वोचः, शान्तं पापं, प्रतिहतममङ्गलं, अनन्तकल्पस्थायि भवतु यौष्माकं शरीरं, न खलु युष्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः, तत्किमनेन बहुना? गच्छाम्यहं, अनुजानीत यूयम् । महामोहः प्राह-जात! मया तावद् गन्तव्यमेव, भवतस्तु केवलमवस्थानेऽनुज्ञा, इत्यभिधायोत्थितो महामोहः । ततो विज्ञाय निर्बन्धं देवेनाभिहितं-तात! यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि, न प्रतिस्खलनीयस्तातेन, महामोहः प्राह-जात! एवं भवतु, न खलु वयमपि भवन्तं मोक्तुं क्षणमपि पारयामः, केवलं गुरुतया प्रयोजनस्यैवं मन्त्रितमस्माभिस्तदधुना सुन्दरमिदं जातेन जल्पितम् । देवेनाभिहितं-महाप्रसादः, ततस्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन, प्रवर्तितं निःशेषं विशेषतो बलम् । ततः स्वयमेव महामोहनरेन्द्रो, देवो रागकेसरी, विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमः सर्वबलेन सन्तोषचरटस्योपरि निग्रहेण चलिता इति वार्त्तया क्षुभितमेतत्समन्ताद्राजसचित्तं नगरं,
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy