________________
૪૧૨
श्लोक :
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
अन्यच्च तदा
देवदानवगन्धर्वा, वर्णयन्तः पराक्रमम् ।
मम गन्धोदकं पुष्पैर्मिश्रं मुञ्चन्ति मस्तके ॥ २ ॥
श्लोकार्थ :
અને બીજું ત્યારે દેવ, દાનવ, ગન્ધર્વોએ પરાક્રમને વર્ણન કરતાં મારા મસ્તક ઉપર પુષ્પોથી મિશ્ર સુંગધીપાણી નાંખ્યું. II૨II
श्लोक :
ततश्च तत्परानीकं, क्षणेन हतनायकम् ।
जातं मे किङ्करं सर्वमाज्ञानिर्देशकारकम् ।।३।
श्लोकार्थ :
અને ત્યારપછી તેનું પરસૈન્ય-યવનરાજાનું સૈન્ય, ક્ષણથી હતનાયક્વાળું, સર્વ આજ્ઞાનિર્દેશકારક भारं डिंडर थयुं ॥3॥
श्लोक :
निर्गत्य नगरात्तातो, हर्षेण सह बन्धुभिः ।
समागतः समीपं मे, नगरं च सबालकम् ॥४॥
श्लोकार्थ :
નગરથી નીકળીને પિતા બંધુઓની સાથે હર્ષથી મારી સમીપે આવ્યા. અને બાલક સહિત नगर खायुं ॥४॥
मातापित्रोर्मिलनं पौरजनकृतहर्षोत्सवश्च
ततो रथादवतीर्य पतितोऽहं तातपादयोः, गृहीत्वांऽसदेशयोरूर्ध्वकृत्याऽऽनन्दोदकवर्षेण स्नपयता समालिङ्गितोऽहं तातेन चुम्बितो मुहुर्मुहुर्मूर्धदेशे, ततो दृष्टा मयाऽम्बा, कृतं तस्याः पादपतनं, समालिङ्गितोऽहमम्बया, चुम्बितो मस्तके, अभिहितश्चानन्दाश्रुपरिपूर्णलोचनया गद्गदया गिरा यथा-पुत्र ! वज्रशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहृदयं यत्तवापि विरहे न शतधा विदीर्ण, निः सारितानि च वयममुष्माद् गर्भवासादिव नगररोधकाद् भवता, अतो ममापि जीवितेन चिरं जीवेति । ततो लज्जितोऽहं स्थितो मनागधोमुखं, समारूढानि सर्वाण्यपि रथवरे ।