________________
२३८
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
श्लोकार्थ :
તે કારણથી=ભાવદીક્ષા તો દુર્લભ છે પરંતુ શ્રાવકધર્મ પણ સંસારસમુદ્રમાં અતિ દુર્લભ છે તે કારણથી, આ પરમાર્થ છે=આગળમાં બતાવે છે એ પરમાર્થ છે ઉત્કૃષ્ટબુદ્ધિવાળા જીવોને સાક્ષાત્ વીર્યનો અતિશય યોગ હોવાથી=મોહની સામે સુભટની જેમ યુદ્ધ કરીને ત્રણગુપ્તિઓમાં યત્ન કરી શકે તેવા વીર્યના અતિશયનો યોગ હોવાથી, પ્રવ્રજ્યા અત્યંત મોક્ષને સાધે છે. વળી, आ= श्रावऽधर्म व्यवधानथी साधे छे= मोक्षने साधे छे. 19 ||
श्लोक :
तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना ।
युक्त ममैषोऽनुष्ठातुं गृहिधर्मो जिनोदितः ।।७।।
-
श्लोकार्थ :
તે સાંભળીને=ગુરુએ કહેલાં તે વચનને સાંભળીને ત્યારપછી, મધ્યમબુદ્ધિ વડે ચિત્તમાં કરાયું= निर्णय डरायो भने खा विनोहित गृहस्थधर्म सेववा भाटे युक्त छे. ॥७॥
बालस्याचरणम्
इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्त्तितया विधुरितचित्तवृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्पाः, यदुत - 'अहो अस्या रूपातिशयः, अहो सुकुमारता, अन्यच्चाभिमतोऽहमस्याः, यतो विलोकयत्येषा मामर्द्धाक्षिविक्षेपैरेतदङ्गसङ्गसुखामृतासेकानुभवनेनाधुना मे सफलं भविष्यति जन्म' इति । ततश्चैवंविधवितर्कपरम्परापर्याकुलीभूतचेतसस्तस्य विस्मृतमात्मस्वरूपं, नष्टा शेषसंज्ञा, जातं मदनकन्दलीग्रहणैकतानमन्तः करणं, ततोऽविचार्य कार्याकार्यं, अन्ध इव, ग्रहगृहीत इव तस्यामेव मदनकन्दल्यां निश्चलविन्यस्तनयनमानसः पश्यत एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म । ततः किमेतदिति उत्थितो जनहाहारवः, प्राप्तोऽसौ मदनकन्दलीसमीपं ततः सावेगं 'क एष इति' निरीक्षितोऽसौ नरपतिना, लक्षितं दृष्टिविकारेण तदाकूतं स एवायं पापो बाल' इति प्रत्यभिज्ञातोऽनेन, सञ्जातास्य कोपारुणा दृष्टिः कृतं भासुरं वदनं, मुक्तो हुङ्कारः । ततो बालस्य दृष्टविपाकतया प्रादुर्भूतभयातिरेकस्य नष्टो मदनज्वरः, प्रत्यागता चेतना, समुत्पन्नं दैन्यं, ततः पश्चान्मुखं नंष्टुं प्रवृत्तो, यावच्छिथिलीभूतानि सन्धिबन्धनानि, विलीयते शरीरं, भग्नो गतिप्रसरः तथापि कतिचित्पदानि कथञ्चिद् गत्वा प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूतले । अत्रान्तरे प्रकटीभूतः स्पर्शनो, निर्गतो भगवदवग्रहात्, गतो दूरदेशे, स्थितस्तं प्रतीक्षमाणो, विरतः कलकलो, लज्जित मनीषिमध्यमबुद्धी बालचरितेन ।