________________
७८
સ-૧૦
,
तस्य वाक्यं समाकर्ण्य-वाच भानुकुमारकः । समीचीनं त्वया प्रोक्तं करोमि वचनं तव ॥ २४ ॥ इत्युक्त्वा सहसोत्थाय स आरुरोह वाजिनं । तेनापि पंचधाराख्या, गतयः क्रमतः कृताः ॥ २५ ॥ आद्य द्वितीयां तृतीयां, गतिं च प्रविधाय सः । रंजयामास भानोश्च, लोकानां मानसं क्षणात् ॥ चतुर्थी च गतिस्तेन, वाजिना विहिता यदा । तदा देहात्समस्तानि, भूषणान्यपतन् भुवि ॥ २७॥ गतिश्च पंचमी चक्रे, यदा तेनातिदुस्सहा । निपपात तदा भानु-रधोवक्त्रेण भूतले |२८| उच्चस्थाने विराजेत, भानुर्भूयिष्टभानुभिः । सोऽप्यधोवदनेनोर्व्या, पपाताऽन्यस्य का कथा । २९ । इत्याच्छाद्य निजं वक्त्र, जहसूराजनंदनाः । वृद्धस्तु गाढशब्देना - हसद्भानुं वितर्कयन् |३०| पातयित्वा वनौ भानुं, हयोऽपि च दिदृक्षया । चंचलत्वं परित्यज्य संस्थितस्तस्य सन्निधौ ॥३१॥ ददत्सु हस्ततालांश्च स्थितेषु राजसूनुषु । स्थविरो वचनं प्रोचे, क्षारप्रक्षेपवद् व्रणे ॥ ३२॥ अस्मादपि कुमार त्वं, शांतात्तुरंगमाद्यदि । पृथिव्यां पतितस्तत्ते, नाश्वारोहणकौशलं ।३३। सत्यभामासुतो वाजि - शिक्षायामस्ति कोविदः । तावकीनो यशोवाद, इति श्रुतः स निष्फलः ॥ त्वं चेन्मां वृद्धमन्यं वा, गुरु कृत्वाथ शिक्षसे । हयशिक्षाप्रवीणत्वं भविष्यति तदैव ते । ३५ । ब्रवीम्यहं ततो भानो, भवंतं हितशिक्षया । अश्वारोहकलाभ्यासं, शिक्षध्वं सम्यगादरात् । ३६। वसुधाधवपुत्राणा - मश्वारोहकलां विना । साम्राज्य साधकं लोके, यशो न प्रकटीभवेत् । ३७। अनया कलया राज्य-भोगो न दृश्यते तव । कीर्त्तिसाम्राज्यवांछा चेच्छिक्षणीया कला तदा ॥ सहते न महीपाल - पुत्रा जल्पनमुत्कटं । श्रुत्वा जगाद कोपेन, पतितोऽपि मुकुंदभूः । ३९ । रे वृद्धाकणितं नास्ति, जरत्याः का कथेशितुः । त्वं प्रविज्ञाय से मूर्खो, मम निंदां करोषि यत् ॥ चटिष्यति तुरंगं यः, स एव निपतिष्यति । त्वादृशानां वराकाणां, चटनं पतनं न च ।४१। अन्यस्य क्रियते निंदा, तहि यद्यात्मनि स्फुटं । किंचिन्मनोहरत्वं स्यात्, त्वं न किंचित्करो भुवि ॥ निंदनीयं शरीरं ते, कुरुपं च शरीरिणां । तथापि कुरुषे निंदां परस्य तत्किमुच्यते ॥४३॥ तवापि तुरगारोह - कला नास्ति मनागपि । यदि स्यात्ते कलाभ्यास - स्तदा त्वं मम दर्शय ॥४४॥ इत्युक्ते भानुना वृद्धः, प्राह सत्यं त्वयोदितं । वृद्धोऽपि तरुणात्त्वत्तो, वर्त्तेऽहं कलयाधिकः । ४५ । मां सर्वेऽपि समुत्पाटया- रोहयंतु तुरंगमे । प्रदर्शयामि युष्माकं मदीयाः सकलाः कलाः ।४६। समाकर्ण्य वचो भानु-स्तस्य वृद्धस्य गर्वितं । उत्कटान् सुभटान्, प्राहा- रोहयत ह्यमुं हये ।४७। पापस्यैतस्य वृद्धस्य, परनिंदाविधायिनः । अश्वारोहणदक्षत्वं पश्यामि निखिलं यथा ।४८ । स्वस्वामिनो वचः श्रुत्वा, समारोहयितुं भटाः । यावद् वृद्धं च बाहुभ्यां, लग्नास्तावत्पपात सः ।। वृद्धोऽपि इलथदेहोऽपि, पतन् वज्ज्र इवावनौ । सहसा पातयामास तान् सामर्थ्ययुतानपि ॥ ५० ॥ कस्यचिद्वदनं भग्नं, हस्तावपि च कस्यचित् । कस्यचिद्रदना भग्नाः, कस्यचित्कूर्परं क्रमौ ॥५१॥ तदाह मायया वृद्ध, एतैर्दुरात्मभिस्त्वहं । निर्दयैरिव भूपीठे, पातितः किं करोम्यहं ॥ ५२ ॥ भानोस्तस्यागुणज्ञस्य किं ददाम्युपलंभकान् । निर्वाहः क्रियते येना - मीषां द्रव्यादिदानतः ।।