________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
તને એકલા ક્યાંય પણ નહી જવા દઉં. પહેલાં એક વખત તારી દુઃખી માતાની સાથે તારે મેળાપ કરાવી દઉં, પછી તારે જયાં જવું હોય, જે રમતો કરવી હોય તે કરજે. પછી તેને રોકવા નહી આવું. તારી જનેતાને મેં આપેલું વચન મને સત્ય કરવા દે.” મુનિ તથા પત્નીને વ્યાકુળ ચિત્તવાળા જાણી પ્રદ્યુને કહ્યું: “હું કયાંય પણ ચપલતા કરીશ નહી. પછી તો કુટુંબ ભેગું થશે. બધા ઓળખીતા-પારખીતા મલવા આવશે. એમાં મને દ્વારિકાની શેભા જેવા નહીં મળે. માટે આપની આજ્ઞાથી દ્વારિકાની શેભા જોઈને વિના વિલંબે આવી જઈશ. આપ કઈ જરા પણ ચિંતા કરશે નહીં.' એમ કહીને પ્રદ્યુમ્ન દ્વારિકા તરફ પ્રયાણ કર્યું.
विमानाद्यावदुत्तोर्य, यात्यसो द्वारिकापुरि। तावद्भानुकुमारो यान्, दृष्टः कोडाकृतेऽमुना ।। धार्यमाणशिरच्छत्रं, वोज्यमानं च चामरैः । राजांगजेटे युक्तं, तं दृष्ट्वा स व्यचितयत् ।२। अस्याः पुर्या अधोशो यः, श्रूयते पुरुषोत्तमः। स एवायं किमन्यो वा, युवराजोऽस्ति कश्चन ।३। दधान इति संदेह, स्नेहं च परमं वहन् । विद्या संस्कृत्य पप्रच्छ, हे विद्ये कः समस्त्यसौ ।।। तस्य श्रवणयोः सापि, तदाभ्यदधदादरात् । सत्यभामा सपत्नो या, जनन्यास्तव वर्तते ।५। असो तस्याः सुतो भानु-र्भानुरिवोरुतेजसा । कर्तव्यं यद्धकिवि-तत्वमा क्रियतां मुदा ।६। प्रोक्तं तस्या निशम्येति, प्रद्युम्नः कोतुकप्रियः । तुरगं रचयामास, भूयो रयोपशोभितं ।। मध्ये परिमितं वक्त्र, निर्मासं कर्णयोर्लघु । विस्तोगमुरसि स्निग्धं, रोमराजो सुलक्षणं ।८। आत्मनो हयपालस्य, रूपं च के विरूपकं । जराग्रस्तस नस्तांगं, कंपमानशिरःकरं ।९। गृहीत्वा तेन रूपेण, सुवर्णमुखयंत्रणं । तम वायामास, हेमपर्याणसंयुतं ।१०। मुदाथ वाहयन् वाहं, प्रद्युम्नो राजवर्मनि । गोविंदनंदनो यत्र, तत्राययो सलोलया ।११। वल्लभा राजपुत्राणां, तुरंगमा भवंति हि । ततः सोऽश्वं समाकारं, तं निरोध चमत्कृतः ।१२। तेनोदितमहो वृद्ध, हयोऽयं कस्य वर्तते । तेन प्रोक्तं ममत्रायं, न वायस्यापि कस्यचित् ।१३। तदा भानुः पुनः प्राह, हयोऽयं केन हेतुना । अत्रानोतस्त्वया वृद्ध, समोचोनं वद द्रुतं ।१४। स जजल्प मया ज्ञातं, हरेः सूनुर्महोदयः । वर्तसे त्वममुं वाहं, मन्मूल्येन ग्रहीष्यसि ।१५। विक्रयाय तवाभ्यर्गे, समानोतस्ततोऽस्त्ययं । भानुः प्राह किमय-मेतस्थ ब्रूहि सूनृतं ।१६। सोऽवगजल्पाम्यहं सत्य-मयवा वितथं सखे। कुमारोऽपदवत्सत्य-क्षेत्र वद्ध निवेदय ।१७। प्रजजल्प ततो वृद्ध-श्चेत्सत्यमेव पृच्छसि । तदा सोणिकाः कोटि-टंका एतस्य मूल्यकं ॥१८॥ कुमारोऽवग्वयोवृद्धा, भवेयुर्वे भवाशा । असत्यं ते न जल्पंति, सत्यमेव ततो वद ।१९। किंचित्कोपेन स प्राह, वृद्ध वृद्ध करोषि किं । पुराणपुरुषस्तात-स्त्वदीय एव वर्तते ।२०। अहं तु तरुणो वर्ते, श्मश्रु मे पलितं यदि । अंगं च गलितं दंता, भग्नाः किं ताजायत ।२१। निवेदितं मया यच्च, ज्ञेयं मूल्यं तथैव तत् । तव चेतसि चेद्भ्रान्तिः, परीक्षा क्रियतां तदा ।२२। लोकेऽपि सर्ववस्तूनि संगृह्यंते परीक्षया। चतुरैरथवा मूर्खः, पुरुषः प्रमदाजनैः ।२३।