________________
सर्ग
33
वपुगिध्ययोगेना-निष्टा सा स्वजनैरपि । निष्कासिता गृहानिदा-कृतं कर्म हि दुस्त्यजं ।३२॥ ततो निर्गत्य गंगायां, पार्वे कृत्वा कुटीरकं । स्थिता सात्र तरंडेनों-तारयत्यतुलान् जनान् । तदुत्तारणमूल्येना-जीविकां विदधाति सा। तन्मध्याद् द्रविणं किंचत्, प्रेषयेत्सा पितुर्गृहे ॥ अनेन विधिना काल-क्षेपं प्रजनयत्यसौ । देहदौगंध्यतो लोक-ढुंगंधेत्यभिधा कृता ।३५। अथान्येधुः स एवागा-न्मुनिआनी हिमागमे । मदाद्यस्यानया निंदा, कृता समभवत्पुरा ।३६। तं समीक्ष्योल्लसञ्चित्ता, पूर्वकर्मक्षयेण सा । व्यचारयदयं शीत-शर्वर्यां किं करिष्यति ।३७। यद्यप्यस्ति तृणागारं, वस्त्रप्रावरणं मम । तथाप्यत्र सरिच्छीतं, न सोढुं शक्यते मया ।३८॥ ततः कथमचेलोऽसौ, साधुः शीतं सहिष्यति । विमृश्येति तया तस्यां-तिके प्रज्वालितोऽनलः॥ अत्र शीतमत्र शीतं, चितयतीति भक्तितः। आप्रभातं स्थिता साग्नि-वस्त्राभ्यां तन्न्यवारयत् ॥ पारयित्वा प्रगे कायो-त्सर्ग स्वर्गापवर्गधीः। प्रोचे लक्ष्मीवती प्रीति-मत्यस्ति कुशलं तव ।४१॥ सोमशर्मद्विजस्य त्वं, वत्से प्रवर्तसे सुता । सा नामांतरमाकर्ण्य, व्यचितयन्निजे हृदि ।४२॥ साधुः किमीदृशं ब्रूते-ऽसत्यवाचं विचारवित् । असत्यं ब्रवते नैव, जेना लोकोक्तिरीदृशी।४३। अभीक्ष्णं चितयंतीति, तन्मयत्वमुपेयुषी। सा जातिस्मरणं लब्ध्वा-पश्यत्पूर्वभवान्निजान् ।४४। यथोक्तांस्तान् समालोक्य, श्रद्दधाना मुनेर्वचः। जैन धर्म समीचीनं विदंती, तं ननाम सा ।४५। नत्वोचे नाथ कि चैत-ज्जातं मे भवनर्तनं । नानाजन्मसमुदभूतं, भूयो योनिविधायकं ।४६। द्विजानां कुत्र मे जाति, कैवर्तककुले त्वियं । पूर्वे भवे स्वरूप मे, क्वात्र रूपमिदं क्व वा ।४७। विनिर्मिता मया निंदा, पातकिन्या तपस्विनः। तेन पापविपाकेन, कर्मोपार्जितमीदृशं ॥४८॥ यः पूर्व निंदितः साधुः, स तु त्वमेव नायकः । तत्पापान्मोचय त्वं मां, कुपालुरसि जंतुषु ।४९। अथ त्वं तादृशं धर्म, प्ररुपय मुनीश्वर । येन निंदाकृतं कर्म, कदापि मां न पीडयेत् ।५०। इत्युदित्वा स्मरंतो सा, स्वरुपं पूर्वजन्मनः । रुरोद प्रौढशब्देन, स्त्रीणां हि रुदनं बलं ।५१। तदा दयासमुद्रोऽव-ग्वाचंयमो हितावहः । मारोदीस्त्वं च दुःखं हि, भुज्यते स्वककर्मणा ।५२। रोदनेन जनैनँव, कदापि प्राप्यते सुखं । सुखेच्छा ते भवेद्यहि, तद्धर्ममार्हतं कुरु ।५३। येनानेकभवोद्भूतं, सर्व कर्म विलीयते । येन सांप्राप्यते सौख्यं, येन कैवल्यसंगमः ॥५४॥ गृहस्थानां स उक्तश्च, सम्यक्त्वद्वादशवतः। गार्हस्थ्येऽपि त्वया कार्यो, धर्मः स एव सद्दयः ।५५। प्रमाणीकृत्य निग्रंथ-वचनं पापपावनं । दधौ सम्यक्त्वमूलानि, द्वादशोच्चव्रतानि सा ।५६। कुले नीचेऽपि भाग्येन, संप्राप्तश्राद्धधर्मया। धीवर्या वंदितः साधुः, प्रतस्थे स्थानकात्ततः ।५७। धीवर्यपि कियत्कालं, तत्र स्थित्वा दयाधिया। कुतश्चित्कार्यतोऽगच्छ-दयोध्यां नगरीप्रति ॥ सा तत्र प्रथमं गत्वा, प्रयाता श्रीजिनालये। तत्रैव मिलितां साध्वी, मुमुदे च निरीक्ष्य तां ।५९। उपाश्रये ततोऽसौ च, गत्वा तत्पुरतः स्थिता। साप्यपृच्छत्तदा भद्रे, का त्वं जातिस्तवास्ति का ॥