________________
३४
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
सोचे धीवरजातीया, प्रवर्तेऽहं तपस्विनि । दुःखिन्यापि मया सौख्यं, संप्राप्तं तव दर्शनात् ।६१। इति प्रोक्ते वतिन्यापि, चक्रे धर्मोपदेशनं । तस्यास्तदुपदेशेन, धर्मश्रद्धाभवबहु ।६२॥ अजानंतो स्वसामर्थ्य-मन्यस्मिन् धर्मकर्मणि । नानाभेद तपः कर्तु, प्रवृत्ता धीवरांगजा ६३। जनयंती तपः प्रौढं, साध्व्याश्च चरणद्वयं । तत्रैव सेवमाना सा, तिष्ठति प्रीतिसंयुता ।६४। अन्येधुरायिका यात्रा-ते राजगृहं पुरं। धीवर्यपि तया साकं, ययौ चैत्यानि वंदितुं ।६५। गिरिमारुह्य साध्वी च, नत्वाहत्प्रतिमा मुदा। आत्मरक्षाविधानाय, गुहामध्ये स्थिता निशि ॥ धीवरी तु जिनाधीश-धर्मध्यानेन जाग्रती । कायोत्सर्गोपवासाभ्यां, कंदरातः स्थिता बहिः ।। तत्रागतेन व्याघ्रण, भक्षिता सा कृशोदरी । शुभध्यानेन सा मृत्वा, द्वितीयस्वर्गमीयुषी ।६८। तत्र भूत्वा ऽच्युतस्वर्गि-नाथभोगोचिता सुरी। अमीष्टान् बुभुजे भोगान्,कृतो धर्मो हि सौख्यकृत्॥ जीवितांते ततश्च्युत्वा, कुंडिनाख्ये महापुरे । श्रीमतो भीष्मभूपस्य, दुहिता समजायत ७०। पूर्वपुण्यानुभावेन, रुक्मिणीत्यभिधा कृता । रुक्मिणा बंधुना दत्ता, शिशुपालाय सा पुरा ७१। नारदर्षिमुखात् श्रुत्वा, वर्णनं नरकद्विषः। प्रेषयित्वा जनं रुक्मिण्यनुरक्ता तमाह्वयत् ७२। पाणिग्रहणवार्तापि, संसारिणां भवेत्प्रिया । प्रेष्यस्य प्रेषणात्कस्य, न स्यात्संमदलब्धये ७३। ततस्तद्वाक्यसंतुष्टि-धरो गोविंद आगतः । शिशुपालनृपं जित्वा, रुक्मिणी वनमानयत् ।७४। तत्रानीय स्वयं पाणि-पीडनं प्रविधाय च । तां नीत्वा द्वारिकां तेन, चक्रेनमहिषी मुदा ७५। तयोः पुत्रः पवित्रश्री-स्त्रस्तशत्रुरजायथाः । निशि त्वं द्वेषिदैत्येन, हृत्वानीतोऽत्र विरतः ७६। प्रद्युम्नः पुनराचख्यौ, विनयाद्गणिनं मुनि । येन मात्रा वियोगो मे-ऽभवत्तत्पापमस्ति किं ॥ साधुनाभिदधे वत्स, भवतः पातकं न तत् । प्राग्जन्मनि कृतं तत्त्व-न्मातुरेवावगच्छतात् ७८। विप्रपुत्र्यान्यदा लक्ष्मी-वत्या वने प्रयातया। मयूरबालको दृष्टो, मातुः पाश्वें वराकृतिः।७९। घटीः षोडश यावत्स, गृहीत्वा रक्षितस्तया । क्रीडा) बहुसौख्येन, न पुनः पापबुद्धितः ।८०। पुत्राविलोकनाद्वीक्ष्या-क्रंदती शिखिनी च तां । लोका लक्ष्मीवती प्रोचु-मयूरीयं मरिष्यति ॥ विलापं जनयंत्यास्त्व-मेतस्या मुंच नंदनं । तद्वाक्येन तया मुक्तो, मातृपाश्र्वे स बालकः ।८२। तवाभून्मातपापेन, विरहः षोडशाब्दिकः । कृतं पापं जघन्येन, यतो दशगुणं भवेत् ।८३। अतः कस्यापि कामिन्या, मर्त्यस्य च कदाचन । बालवृद्धयुवादीनां, न कार्यों विरहो बुधैः ॥ हसने कीडने तेन, जल्पने कल्पने पुनः। शयने भोजने याने, विधेयं पापकर्म न ।८५।
આચાર્ય ભગવંતની વાણી સાંભળીને પ્રદ્યુમ્ન કહ્યું: “હે નિષ્કારણ ઉપકારી ગુરુભગવંત, આપના કહ્યા મુજબ હું કરીશ. પરંતુ પ્રભો ! હું એક વાત પૂછું ? જન્મતાં જ મારી માતાની સાથે મારે વિયોગ થયો, તે મારા કઈ દોષથી કે મારી માતાના દોષથી?” આચાર્ય ભગવંતે કહ્યું : “માતાપુત્રને વિયોગ થવામાં તારો કોઈ દોષ નથી, પરંતુ તારી માતાના દોષથી થયો છે. પ્રદ્યુમ્ન પૂછયું: વિયાગ થવા માટેનું કારણ આપ કૃપા કરીને મને જણાવશે?” આચાર્ય ભગવંતે કહ્યું “કુમાર,