________________
३२
શાંષ-પ્રદ્યુમ્ન ચરિત્ર
વૈરથી જન્મજાત એવા તને મારી નાખવા માટે તારૂ હરણ કરી ટકશિલા ઉપર તને મૂકી દીધા. આ પ્રમાણે પૂર્વજન્મના માહથી કનકમાલા તને જોઇને સ્નેહથી વિલ બની ગઇ. મહાન સ્ત્રી– પુરૂષોને પણ રાગદ્વેષ થાય છે, તે પૂર્વજન્મના ઋણાનુબંધથી જ થાય છે અને તે દુ:ખદાયી બને છે. કનકમાલા તને એ વિદ્યાએ આપવાની ઈચ્છા કરશે તા તારે કાઇ પણ ઉપાયે તેની પાસેથી વિદ્યા ગ્રહણ કરી લેવી. ભવિષ્યમાં તને ઉપયાગી થશે.’
દુન્ત્યજ્ય અને
तदाकर्ण्य कुमारोऽवक्, मुनीशमुल्लसन्मनाः । त्वद्वाक्यं प्रकरिष्यामि त्वं महानुपकारकः ॥७॥ प्रभो पृच्छाम्यहं किंचिदन्यच्च जनवल्लभ । मात्रा सत्रा वियोगो य, आबाल्यादपि मेऽभवत् ॥ स किं मद्दोषतः किं वा, जननीदोषतोऽजनि । इति व्यवतं त्वया नाथ, निरूप्यतां पुरो मम |९| तदा प्राह मुनिस्वामी, वियोगो यरतवाभवत् । स मातृदोषतो जातो, न पुनस्तव दोषतः ॥१०॥ प्रद्युम्नः पुनरप्याह, कथं नाथ ! बभूव सः । प्रजजल्प तदाचार्य:, समाकर्णय सद् गुण ! | ११ | प्रायो वियोगसंयोगो भवेतामिह देहिनां । प्राग्जन्म सेवितैः सांद्रैः कर्मभिरस्तशर्मभिः । १२ । जंबूद्वीपे जगद्दीपे भरते विरतेऽवमैः । देशे परिहृतक्लेशे मगधे विबुधे हिते |१३| पुरं लक्ष्मीपुरं नाम्ना, लक्ष्मीपूरसुसंश्रितं । सोमशर्मा द्विजस्तत्र, वसति स्मृतिनीतिवित् | १४ | षट्कर्मादीनि कर्माणि सत्यापयन्निरंतरं । जपहोमविधाता स, ध्याता ब्रह्महरीश्वरान् । १५ । तस्य प्रवर्तते पत्नी, सपत्नीभूतनीरधेः । कमलानामतस्तस्या, अपि लक्ष्मीवती सुता । १६ । रूपेण देवकन्येव चातुर्यवर्यविग्रहा । नक्रचक्रं प्रचक्रे सान्यांगनांरूपदर्शनात् ॥१७॥ अन्यदा मंदिरे तस्या भिक्षार्थं साधुरागतः । मलक्लिन्नशरीरश्च कुर्वन् मासेन पारणं |१८| विश्वोद्योतितपोयुक्तो धर्मध्यानपरायणः । सर्वशास्त्रकृताभ्यासो, मित्रामित्र पवित्रधीः |१९| तदा परिधानांगे, विभूषणानि कन्यसौ । पश्यंती रूपमात्मीयं, प्रमोदेन प्रवर्तते । २० । पृष्टे समागतस्यर्षे - दर्पणे प्रतिबिंबितं । दृष्ट्वा रूपं मदांधा सा5- हंकारेण व्यचितयत् । २१ । क्व बीभत्समिदं रूपं, मनुष्याणां भयंकरं । दर्शनीयं ममेदं क्व, लोचनप्रमदप्रद | २२| मुहुर्मुहुर्मुने रुपं, निदंती गुणधार्यपि । स्तुवंती च निजं रुपं, घोरकर्मार्जितं तया | २३ | तेनैव कर्मणा तस्याः, कायेऽल्पैरेव वासरैः । कुष्टरोगः समुद्भूतो, यतिनिंदा हि दुःखदा । २४ । अक्षामितो महाक्रोधो, यथा मिथः प्रवर्धते । इतीर्ष्ययेव तस्याश्च, रोगः प्रावर्धताधिकः । २५। तेन कुष्टामयेनेयं प्राप्नुवत्यरति बहुं । सप्तमे दिवसे वह्नौ, रोगेण व्याकुलाऽविशत् । २६ । ज्वलत्कृशानुना दह्यमानार्त्तध्यानधारिणी । सा मृत्वा रासभीभूता, प्रभूतभारभारिणी ॥२७॥ ततोऽपि दुःखिता मृत्वा संजाता सा च शूकरी । मारिता कोट्टपालेन, शुनी सा समजायत । एकदा सारमेयी सा, हेमंते सूतबालका । वाटिकासन्निधौ गत्वा, नोवारवारसंस्थिता ।२९। अगच्छंती स्वबालानां, मोहेनान्यत्र कुत्रचित् । वह्निना तत्र लग्नेन, दग्धा साभूद्वदामितत् ॥ कैवर्तस्य नाविकस्य कुले पुत्रो बभूव सा । पूतिगंधसमन्वीत - विग्रहा शेषकर्मणा |३१|