________________
सर्ग-१०
अमीषां नाममात्रेण, ब्राह्मणत्वं प्रवर्त्तते । नाम्नः प्रयोजनं नास्ति, तद्वेदोक्तक्रियाकृतेः ।६। अहं वेदविदां मुख्यो, ब्रह्मक्रियाविधायकः । भक्तानां च सदा सौख्य-दायको द्विजनायकः ७। मयि भोजनमादान-मेकशोऽपि सुभावतः । वंशवृद्धिकरं ज्ञेयं, शतशाखाप्रसारतः ।। कोटिशोऽन्यद्विजातीनां, स्याद्भोजनेन यत्फलं ।
____ भविष्यत्यधिकं तस्मा-देकस्मिन् भोजिते मयि ।। हसित्वा तस्य वाक्येन, सत्यभामा जगौ द्विजान् ।
आचारी वेदशास्त्रज्ञो, भोज्य एष विशेषतः ।१०। स्वस्वामिन्या वचोयोगा-प्राहुस्ते कृत्रिमं द्विजं । चरणौ भोजनार्थत्वं,प्रक्षालयाविलंबतः ॥११॥ तैरित्युक्ते स विप्रस्य, वृद्धस्याभूद्यदासनं । तदारुह्य द्रुतं पादौ, क्षालयामास वारिभिः ॥१२॥ तदा परे द्विजाःप्रोचु-स्तं रे विवेकवजितः । लघुर्वृद्धासने नैव, तिष्ठेन्नेत्यपि वेत्सि किं ।१३। स प्रजजल्प वृद्धाः के, लघवः के च पुरुषाः । वयसा वार्धकं नास्ति, गुणरेव समस्ति तत् ।१४। यस्मिन् गुणा भवेयुः स, वृद्ध एव लघुरपि । यस्मिस्त एव नो रम्याः, स वृद्धोऽपि लघुः पुनः ॥ केचिद् वृद्धा जगुर्विप्रा, किमेतेनाविवेकिना । सार्धं कार्यो विवादश्च, गर्वसंपूर्णचेतसा ॥१६॥ उच्यमाने द्विजैरेवं, प्रक्षाल्य सहसा क्रमो। सोऽवगणय्य निःशेषा-निविष्टो ज्येष्टविष्टरे ।१७। तदा ते च क्रुधामाता, द्विजन्मानो बभाषिरे । स्थास्यामो न वयं भोक्तु-मत्रतेन दुरात्मना । अत्रैवैनं शठं मुक्त्वा, गत्वा द्वितीयमालयं । वयं भोक्ष्यामहे नूनं, नानेन सर्वथा पुनः ।१९। इत्युक्त्वा वाडवा सर्वे, यावद्यांति गृहांतरं । अग्रतस्तेन गत्वाशु, तत्रापि पूर्ववत्कृतं ।२०। निरीक्ष्य सत्यभामापि, तमेवं कलिकारकं । ब्राह्मणा अपि संजाता, अनल्पकोपपूरिताः ।२१। तदा ते प्रोचुरन्योन्यं, सर्वावज्ञाविधायकः । मार्यतामयमात्मीय-वेदशास्त्रविडंबकः ॥२२॥ सर्वेऽपि ते मिलित्वोचु-र्वेदज्ञानविलोपकः । मार्यते दूषणं तर्हि, शास्त्रेऽपि न निरुपितं ।२३। इत्यालापान् प्रकुर्वाणान्, ज्ञात्वा तान् विप्रवेषभाक् ।
प्रोचे के वेदशास्त्रज्ञा, युष्मासु संति वाडवाः ॥२४॥ तेषां पृच्छामि वेदार्थान् यज्ञहोमप्रदर्शिन । वेदशास्त्रोदितं कर्म, किं कुर्वत्यथवा न हि ॥२५॥ शास्त्रत्वेन प्रमाणं न वेदास्ते तत्ववेदिनां । अश्वच्छागादिजंतूनां, यत्र हिंसा प्ररुपिता ।२६। तच्छास्त्रं शस्त्रमेवोक्तं, येन हिंसा निगद्यते । ब्राह्मणास्तेऽपि चांडालाः, साः च यैरुपदिश्यते ॥ जीवानां घाततो धर्मः, कुत्रापि न निरुपितः। युष्माभिः स्मृतिवेदोक्त्याः, स एवादौ निगद्यते ।। वेदोक्तोत्थापकं मत्वा, त्वं च ब्राह्मणनिंदकं । यावत्कोपाकुला हंतु, समुद्यता द्विजातयः ।२९। तेषामुपरि तेनाशु, विद्या तावदमुच्यत । मिथ एव तया चक्रु-वल्गनं कलहेन ते ३०। मुष्टिभिर्मारयामासु-डिवा केऽपि मूर्धनि । केचित्कटीप्रदेशेषु, कूपरेषु च केचन ।३१॥ ૧૩