________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
ताडयामासुरेके च, केषांचिद् हृदयेषु च । केऽपि नेत्रेषु कर्णेषु, केऽपि करक्रमेष्वपि ॥३२॥ कुर्वति लुण्ठनं भूमौ, केचिद्गृहीतकुंतलाः । प्रहारं ददते केचि-चरणेन गरीयसा ।३३। क्लेशं तेषां मिथो ज्ञात्वा, सत्यभामाऽवदच्च तान् ।
कुप्यथ भो कथं विप्रा, भोजयिष्याम्यहं समान् ।३४। एकाक्याप्युच्छलद्विप्र-वेषधारी कुतूहलात । वाडवान् कुट्टयामास, लेष्टुभिर्लकुटादिभिः ।३५। हास्याकुला स्थिता ताव-त्सत्यभामा द्विजं जगौ। एतस्त्वमपि जग्धध्वं, कलहं कुरुषे कथं ? ॥ एकाकिनोऽपि संजाता, न तवोदरपूरणा । यथेच्छं भोजनं कुर्या, माकार्षीः कलहं द्विजैः ॥ प्रजजल्प तदा विप्रः, सत्यभामे मया हृदि । ज्ञातं त्वच्चेष्टितं सर्वं, स्त्रीजन्मपरिकल्पितं ॥३८॥ विप्रा आकारिता एव, भोज्यंते त्रपया त्वया । अनाकारित एकोऽपि, निर्वोढुं शक्यते न हि ॥ कर्णजापं ततः कृत्वा, त्वयैव प्रेरिता द्विजाः । मत्सरोपचिता हंतुं, मामेकाकिनमागताः ।४०। आचारजितैरेतैः, कुक्षिभरिभिरुद्धते । वराकैः शुद्धविप्रोऽहं, निहन्ये कथमन्यथा ॥४१॥ केशवस्यादिमा रामा, प्रोचे यो येन मारितः। तदीक्षितं मया दृष्ट्या, मौनमाधाय भुंश्व भोः॥ कृत्रिमेन द्विजेनोक्तं, भोजयिष्यसि मां यदि। पूर्णं तद्भोजनं देयं, न पुनस्तालुमात्रकं ।४३। स्मित्वा तया बभाषे चेद्, बुभुक्षा प्रचुरा तव । ममाग्रे हि तिष्ठ त्वं, द्राक् परिवेषयाम्यहं ॥ इत्युक्त्वा तस्य विप्रस्य, सा जगाद स्वसेवकान् । भोजयंत्वमुमाकंठं, प्राज्यानपरिवेषणात् ।४५। तैरप्यादरतस्तस्य, प्रदत्तं शुभमासनं । मंडितं जातरुपस्य, विशालं स्थालमुत्तमं ।४६। प्रकांडतमकूष्मांड-पाकं फलान्यनेकधा । आनीय विविधान्नानि, ते तस्य पर्यवेषयन् ।४७। सत्याऽवादीदहो विप्र, तव यत्परिवेषितं । तत्सर्वमपि पीयूष-मिवान्नं कुरु सत्वरं ।४८॥ इत्युक्ते कवलैर्वृद्धः, करीव स बुभुक्षितः । अभुंक्त सर्वमाहारं, सेवकः परिवेषितं ।४९। द्वितीयवारमप्युच्चै-विमुक्तं तस्य भक्षणं । तदप्यभुक्त निःशेषं, किंचिदुद्धरितं न तु ।५०। भुंक्ते यथा यथा विप्र-स्तथा तथा विनोदतः । आनीयानीय गेहेभ्य-स्तस्यान्नं पर्यवेषयन् ॥ परिवेषंति यावच्च, पक्वान्नं तस्य ते जनाः। भक्षणात्क्षणतस्तस्य, भवेत्तेषां कुतुहलं ।५२। विधातुं भानुविवाहो-त्सवं या यादवांगनाः। समेतास्ता अपि प्राज्य-मन्नादि पर्यवेषयन् ॥ क्रीडया ये पुमांसश्च, कामिन्यो या हसान्विताः। मुंचंति तत्पुरो यद्य-त्तत्तत्स भक्षयेत्क्षणात् ॥ कौतुकेन ततः काश्चिद्, घृतपूरान्मनोहरान् । खर्जकान् काश्चन प्राज्यान, मोदकांश्च प्रमोदकान् ।। कांश्चित्पूपान् लसद्रपान, भक्तयुक्तांश्च कांश्चन। गुडान् खंडानखंडांश्च वटकांल्लपनश्रियः ।५६। काश्चिद्दधीनि दुग्धानि, तैलान्याज्यानि काश्चन । गोधूमांश्चणकान्माषा-न्मुद्गान्मसूरिकानपि॥ पक्कं धान्यमपक्वं वा, लसत्पेयमपेयकं । हृद्यं खाद्यमखाद्यं वा, स्वाद्यमस्वाद्यमुच्चकैः ।५९। निष्पन्नं द्रागनिष्पन्नं, मनोज्ञममनोज्ञकं । मनुष्यगजगोवाजि-महिष्यर्थं समादृतं ।६०। भांडेषु प्रौढकुंडेषु, महानसेषु सद्मसु । तस्येति मुमुचुस्ते यत्, तत्सर्वं तेन भक्षितं ।६१॥