________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
भव त्वं सर्वथा तर्हि, कुरूपा च पुरो मम । यथा विद्याप्रयोगो मे, लगेद्रूपाधिकत्वकृत् १७७। सा जगादार्थिनी स्वामिन् ! , रक्ष्यं गोप्यं न मत्पुरः। विधाय करुणां प्रौढां, तं विधि मे प्रदर्शय ॥ स प्रोचे कथयिष्यामि, तत्त्वं न प्रकरिष्यसि । साऽवोचत्प्रकरिष्याम्य-वश्यं सद्रपलिप्सया ७९। स प्राह परिधेहि त्वं, जीर्णस्यूतं तदांबरं । मस्तकं मुंडितं कृत्वा, मष्यालिपाऽखिलं वपुः ।८०। तिष्ठ त्वं मत्पुरो भद्रे, यथा मंत्रं ददाम्यहं । तेनेत्युक्ते तया चक्रे, विधिः सर्वोऽपि भाषितः।८१॥ कृत्वा तदुदितं याव-द्विधि सा संस्थिता पुरः। रुडुबडुमिति मंत्र-स्तावत्तेन समर्पितः ।८२। कुलदेव्याः पुरो मंत्रो, जपनीयोऽयमद्भुतः । कथयित्वेति विप्रोऽवक, क्षुधया पीडितोऽस्म्यहं । ततो मां भोजय त्वं य-द्विवाहो वर्ततेऽत्र च । क्षुन्मे शामयितुं शक्या, न विवाहगृहं विना ।८४। क्षुधाकुलं वचः श्रुत्वा, हसितं सत्यभामया। वाडवः प्राह किं त्वं न, भोजनं दातुमिच्छसि ।८५। भोजने प्रार्थ्यमानेऽपि, त्वयका हसितं यतः। इत्युक्ते मिलितास्तत्र, विप्राःप्रोचुर्जडोऽसि किं । हास्येन सत्यभामाया, विषादं विदधासि यत् । भूरिभाग्योदयस्तस्य, येन सार्धं हसत्यसौ।८७। हसिता तव यद्येषा, भोजनं याचितं कथं । दशग्रामांगनावाजि-हस्त्यादि किं न याचितं ।८८॥ अद्यापि स्वर्णमाणिक्य-रुप्यद्रव्यादिकान्यपि । याचस्व पट्टकूलानि, वराणि वसनानि च ।८९। अथवा यादृशं भाग्य, स्यात्प्रार्थनापि तादृशी। अत्र नास्ति भवद्दोषः, किंतु कर्मण एव सः।९०। स जगाद न मूर्योऽहं, यूयमेवाविशारदाः। फलं भोजनमेवादौ, वस्तुन्युपाजितेऽखिले ।९१। शुद्धविप्रकुलाचारा-राधको यो भवेद् द्विजः। स तु भोजनमेवादौ, याचते यजमानतः ।९२॥ आचारस्यैव विप्रस्य, भवेत्तस्य प्रयोजनं । अतो भोजनमात्रेण, तृप्तिर्मम प्रवर्तते ।९३। यद्येषा कृपणा न स्या-दस्याश्च धनसंभवः । दीयतां भोजनं तर्हि, पुत्रमंगलवांच्छया ।९४। मम यद्भोजनं दत्तं, सकलं तन्मुधा गतं । स्त्रीणां तुच्छस्वभावेन, नेति ज्ञेयं त्वया हृदि ।९५। वर्तेऽहमपि भूदेवो, यादृशस्तादृशो न हि । भोजिते मयि निःशेष, भुवनं भोजितं त्वया ।९६। ततो मां शुचिभावेन, भोजयाशु क्षुधातुरं । गृहस्थानां हि दामेन, शुद्धिर्भवति निश्चयात् ।९७। संतुष्टा वचसा तस्य, कृष्णाग्रमहिषी जगौ। भोजयध्वममुं यूयं, भो भक्तकारका नराः।९८॥ शास्त्रज्ञानेन रूपेण, विप्राचारेण बुद्विभिः । दृश्यतेऽयं समीचीनो, भोजनं दीयतां ततः ।९९। विप्रमप्यब्रवीद्देवी, भुंजते यत्र वाडवाः । गत्वा महानसे तत्र, भुंश्व त्वमपि लीलया ७००। विप्रवेषोऽवदत्तूर्ण-मेभिद्विजातिभिः समं । भोजनं यन्ममादिष्टं, किमहं तत्समो मतः ।१। ते हि पाखंडिनो विप्रा, विप्रनाम्नश्च धारिणः । वेदशास्त्रपरिभ्रष्टा, दुष्टाचारस्य सेविनः।२। एतैः सह न भोक्ष्येऽहं, कलत्रादिनियंत्रितः । विषयः परलोकस्य, साधनोपायवजितैः ।। यदि भोजनदानेच्छा, भवेत्त्वदीयचेतसि । तीतेभ्यः पृथग्देय-मशनं पुनरासनं ।४। त एव ब्राह्मणा ज्ञेया-स्तारणे तरणे क्षमाः । कषायविषया येषां, विद्यंते न कदाचन ।५।