________________
सम-८
૨૭૯
दष्टस्य फणिना पुंसो, व्याधिभिर्व्याधितस्य च । अपि लग्नकृपाणस्य, प्रतीकारः प्रवर्तते।।८४॥ परं कंदर्पबाणेन, विद्धस्य तु शरीरिणः । न विद्यते प्रतीकार, उपचारशतैरपि ॥८५॥ तथापि कथयाम्यस्य, वाक्यमायतिसुंदरं । विमृश्येत्यब्रवीन्मंत्री, कामातुरं मधुनृपं ॥८६॥ यत्त्वया चिंतितं चित्ते, मत्पुरो यच्च भाषितं । इह लोकेऽन्यलोके त-दपवादकरं तव ॥८७॥ तदिदं चिंतनं त्यक्त्वा, मत्वा मद्वचनं विभो । निजाभिष्टानि कृत्यानि, विचारभाक् समाच।८। दुष्टेन मंत्रिणानेन, चित्तवार्ता ममाददे । न करोत्युद्यमं तत्र, वारयत्येष मां पुनः ॥८९॥ ततोऽवदन्महीपालः, कोपाटोपेन धीसख । याहि त्वं दुरतोऽवश्यं, मरिष्याम्यहमत्र च।९०। कामी हितोपदेशेन, कार्याकार्य च वेत्ति न । ततोऽयं सहसा प्राणान्, मात्याक्षीत्कामविह्वलः॥११॥ ध्यात्वेति सचिवः काल-क्षेपं कारयितुं जगौ । नाथ संप्रति रक्ष्येयं, किंवदंती त्वया हृदि ॥१२॥ दुष्टं भीमनृपं जेतुं, सांप्रतं गच्छ भूपते । मयका वलमानेन, करिष्यते तवेप्सितं ॥९३॥ परदारविलुब्धस्त्वं, वचसा मे यदि प्रभो । न गच्छस्यधुना तर्हि, ज्ञेयं दुःख महत्त्वयि ॥९४॥ य एते सुभटाः संति, त्वत्तस्ते सकला अपि । परावृत्य गमिष्यति, सैन्ये भंगो भविष्यति ॥१५॥ संजाते कटके भंगे, रिपुरुन्मादमाप्स्यति । वैरिण्युन्मादमापन्ने, तवायशो भविष्यति ॥९६॥ ततस्त्वमधुना स्वामि-नाश्वास्य सकलां चमुं । सर्वेण परिवारेण, प्रथमं जय वैरिणं ॥९७॥ श्रुत्वेत्यूचे मधुर्मत्रिन् , किं भापयसि मां मुधा । प्रयातु सकलं सैन्यं, कीर्तिरप्यस्तु वाऽस्तु मा।९८८ मम सैन्येन सर्वेण, द्रव्येण न प्रयोजनं । एकमिंदुप्रभायां हि, प्रयोजनं कुरुष्व तत् ॥१९॥ इत्युर्वीशवचः श्रुत्वा, चिंतयामास धीसखः । कामातुरो मधुर्हाहा, विरुद्धं किं प्रजेल्पति ।।१००॥ अथवा कामिनो माः , कुलाचारं बलं धनं । प्राणानपि त्यति स्वान् , विरुद्धजल्पनेन किम्॥१॥ यादृशो रागिणां रागो, रूपिण्यां स्त्रियि वा धने । तादृशो यदि धर्मे स्या-त्तर्हि सिद्धिर्न दुर्लभा॥२॥ आबालकालतोऽप्येष, वर्धितः पार्थिवो मया । यदि सोऽपीदृशं वक्ति, तदन्यस्य तु का कथा॥३॥ अथास्याज्ञानुसारेण, प्रचले वा स्वबुद्धितः । आश्वास्यैनं यथा काल-क्षेपोऽपि च प्रजायते ॥४॥ विचार्येत्यवदन्मंत्री, येनोद्देशेन नायक । निर्गतस्त्वं कुरुष्वादौ, यतो वैरिजयो भवेत् ॥५॥ जिते वैरिणि ते भावी, प्रतापस्योदयो महान् । पश्चाद्विधास्यते नाथ, तावकं चित्तचिंतितं ॥६॥ पार्थिवः प्राह यद्येवं, तर्हि त्वं मम गोचरे । कुरुष्व शपथान मंत्रिन्, मां विश्वासयितुं द्रुतं ॥७॥ कामार्ता विकलात्मानो, विश्वास्या हि यथातथा । प्रधानेन ततस्तेन, शपथाः प्रतिचक्रिरे ।।८॥ 1 . ઈદુપ્રભાના ધ્યાનમાં લીન મધુરાજા રાજસભામાંથી ઉઠીને દિવસે પણ રાત્રિની કલ્પના કરતા અંધારએરડામાં જઈને પલંગ ઉપર પડયો. ત્યાં રહેલે રાજા કેઈની સાથે આદરથી વાત કરતા નથી, રૂચિથી ખાતે નથી રાત્રિમાં ઊંઘતે નથી, પિતાના સૈન્યની કોઈ ચિંતા કરતે