________________
२४८
શબ-પ્રદ્યુમ્ન ચરિત્ર
यद्यपि ब्राह्मणैः प्रायो, जैनो मुनिर्न मन्यते । तथापि निजकार्ये स्यु-स्तेऽपि च नमनाहकाः ॥१५ ततः समीपमागत्य, कायोत्सर्गजुषो यतेः । आनम्य तत्क्रमांभोज, कथयामासतुश्च तौ ॥१६॥ सर्वजीवकृपाकारी, सर्वजंतुहितावहः । सर्वोपकारकः साधु-स्त्वमेव भुवि वर्तसे ॥१७॥ ततस्तनयभिक्षा त्व-मावयोर्वितराधुना । भवेयुर्हि महांतस्तु, प्रार्थनामंगमीरवः ॥१८॥ उपकारिणि भूयांसो, भवेयुरुपकारकाः । योऽपकारिणि जायेतो-पकारकः स उत्तमः ॥१९॥ इति ज्ञात्वा कृपां कृत्वा, ह्यावयोरुपरि प्रभो ! । एतावन्यायकर्तारौ, बालको मुंच कष्टतः ॥२०॥ रुहंतौ विलपंतौ च, वदंतौ दीनभाषया । समीक्ष्य दंपती साधुः, कायोत्सर्गमपारयत् ॥२१॥ पारयित्वा तनूत्सर्ग-मक्रोधः साधुरभ्यधात् । मम कस्योपरि द्वेषः, सर्वथा नास्ति वाडवौ॥२२॥ समेतस्य निजं स्थानं, रक्षा प्रत्यर्थिनोऽपि च । उत्तमैः पुरुषैरात्म--प्राणैरपि विधीयते ॥२३॥ चिनयित्वेति यक्षेण, काननस्वामिना निशि । स्तंभितौ मम रक्षार्थ, संभाव्यते इमौ द्विजौ ॥२४॥ वार्तामिति प्रकुर्वाते, यावन्मिथो यतिद्विजौ । प्रत्यक्षीभूय तावत्स, दंडपाणिः समागतः ॥२५॥ समेत्य च नमस्कृत्य, यतिनं गुणमंदिरं । उवाच सोऽपि हे साधो !, चितां त्वं मा कृथा वृथा।२६ यदि न्यायवतां पुंसां. दंडो मया विधीयते । तहि लोकापवादः स्या-त्तावकोऽपि च मामकः।२७ अन्यायकारिणां नृणां, दंडादाने मुनीश्वर । प्रत्युतापनिवृत्तिः स्या-द्यशोवादश्च विष्टपे ॥२८॥ तत एतौ हनिष्यामि, शिक्षादानस्य हेतवे । नांतराले त्वया किंचि-त्कथनीयं ममाग्रहात् ॥२९॥ ग्रामस्य प्रथमं त्वस्य, दुष्टनीतिप्रवर्तकं । मारयिष्यामि भूषाल-मपराधविधायिनं ॥३०॥ त्वयि मत्सरिणावेतौ, मदोन्मत्तौ द्विजातिजौ । पूर्वमेव यतोऽनेन, वारितौ न निरगलौ ॥३१॥ उक्त्वेति वज्रिवज्राभ, दंडमुत्पाटय पाणिना । निहंतुं भूपति यक्षो, दधावे क्रोधभीषणः ॥३२॥ तदा मामेति निःशेष-रपि प्ररुपिते सति । स्वस्थीभूते क्षणं तस्मि-नाचख्यौं विनयान्नृपः ॥३३॥ स्वामिन्नहं न जानामि, वादस्वरूपमेतयोः । मया चेज्जानता नैतो, वारितौ तर्हि दूषणं ॥३४॥ समस्तैरपि तत्रत्यै-स्तथैव कथिते सति । अपासरद्वनाधीशो, भूपमारणकर्मतः ॥३५॥ अपसृत्य नृवाक्येन, धराधीशान्निरागसः । निहंतुं धावितो यक्ष--स्तौ द्विजावपराधिनौ॥३६॥ मामेत्यभिदधत्साधु--रभ्यधावक्षनायकं । एतयोर्दूषणं नैव, कर्मणां तत्समस्ति च ॥३७॥ यक्षस्तदा जगादाप--कारिष्वप्युपकारिणः । तवावज्ञा कृतैताभ्यां मार्यावेव ततस्त्विमौ ॥३८॥ वाचंयमस्तदा वाच--मुवाच कृपया हृत् । यक्षराज ममाचारं, शृणु त्वं शांतचेतसा ॥३९॥ योऽन्यार्थ क्रियते जीव-घातः सोऽपि निवार्यते । मदर्थमनयोर्घातं, कथं पश्यामि भो वद॥४०॥ अस्माकं यतिनां मार्गे, समस्तमपि तीर्थपैः। कथितं परमब्रह्म--स्वरूपैकनिबंधनं ॥४१॥