________________
..सा
ર૪૫
ताववलोक्य भूदेवा–वृद्घाटितकृपाणको । निनंसया गताः केचि-त्कुति कल्पनामिति॥८५ केचिद्वदंति षड्जीव-निकायरक्षकं मुनि । समानशं त्रुमित्रं च यद्येने हेतुमागतौ ।।८।। तदेतौ कर्मचांडालौ, ब्रह्मवंशोद्भवावपि । एतयोः पठनं चापि, भस्महूतमिवाजनि ।।८७॥ ब्रवीति भीरुका काचि-दुद्घाटितकृपाणयोः । स्वरूपमेतयोदृष्ट्वा, मातर्विभेम्यहं भृशं ॥८८॥ काचित्प्रोवाच माभैषी-नस्त्येिवाथोऽनयोर्बलं । साधु हतुं समेतौ तौ, यक्षेण स्तंभिताविमौ ८९ किंवदंती प्रसिद्धैका, स्त्रीमुखे चटिता पुनः । तस्याः स्याद्गुप्तवृत्तित्वं, कथं संगोपनैरपि ॥९०॥ पुरुषाणां समूहेन, कलापेन च योषितां । क्रियमाणा मिथो वाता, सैव मुखे मुखेऽभवत् ।।९१॥ भ्रमतोऽथ नरेंद्रस्य, नगरे तत्र लीलयो । प्रसरंतीति तस्यापि, सा गता कर्णकोटरे ॥९२॥ ततोवक्सेवक भूमि-पालः प्रवृत्तिरश्रुता । श्रयतेऽद्य कथं नूनं, श्रमणब्राह्मणस्थिता ॥९३॥ सोऽपि प्ररूपयामास, ज्ञातचरस्वरूपकः । उद्यानेऽस्ति समायातः, श्वेतांबरस्तपोधनः ॥१४॥ समं मुमुक्षुणा तेन, सर्वजीवाविरोधिना । अत्रत्याभ्यां द्विजन्मभ्यां, कल्ये वादो विनिर्मितः॥९५॥ ताभ्यां विवदमानाभ्यां, हारितं जनसाक्षिकं । ततः कोपाद्यतिं हेतु- मागतौ तौ दुराशयौ।।९६॥ कृपालुं सर्वजीवेषु, यति तं हंतुमुद्यतौ । विज्ञाय वननाथेन, यक्षेण यंत्रितौ द्विजौ ।।९७।। तौ विक्षितुं प्रयांत्येके, आयांत्येके च वीक्ष्य तौ । पुरुषस्त्रीसमुहेन, वार्ता सैव विधीयते ॥९८॥ सेवकोक्तं वचः श्रुत्वा, भूमीपालोऽप्यवीवदत् । प्रयास्यामो वयमपि, वीक्षितुं तत्र कौतुकं ॥१९॥ सेवकोऽपि क्षमाजानि, ज्ञात्वा जिगमिषु वने । सामग्री रचयामास, करेणुतुरगादिकां ॥९००॥ तया भूपोऽपि सामग्रया, मुनि नंतु च कौतुकं । वीक्षितुं कानने सौवे, स्वजनैः कलितो ययौ १॥ भूपालप्रमुखैलोकै-भूदेवयोद्वयोस्तयोः । स्वरूपं वीक्ष्य नेत्राभ्यां, जिनधर्मः प्रशंसितः ॥२॥ समस्तेभ्योऽपि धर्मेभ्यो, धर्म आहेत एव च । यत्र जीवदयाधर्मः, प्रथम कथितो जिनैः ॥३॥ केचिद्धमै प्रशंसंति, जंतुजातसुखावहं । केचन धर्मिणं साधु, क्रोधरोधविधायिनं ॥४॥ निदंति पितरौ केचिद् , द्विजन्मनोस्तयोर्द्वयोः । केचित्तावेव पापिष्टौ, दुष्टौ विद्याभिमानिनौ ।।५ वार्तायां जायमानाया-मितीतरेतरं पुरे । केनचित्पुरतः पित्रोः. स्वरूपं कथितं तयोः ॥६॥ युवयोस्तनयाम्यां ह्य-स्तने दिने विनिर्मितः । विवादः साधूना साधे, हारितौ तौ तु दुर्मती।।७॥ तेन द्वेषेण यामिन्या-मागत्य यतिनोंतिके । घाताय खड्गमादाय, यावत्तौ धावितौ कुधा।।८॥ तावन्मुमुक्षुपुण्येन,समागत्याथ तत्र च । यक्षेण वनपालेन,स्तंभितौ तौ नीमुखौ ॥९॥ निशभ्य तत्समाचार, तन्मुखात्कर्णदुःखदं । पितरौ भूयसा स्नेह-संयोगैन व्यषीदतां ॥१०॥ सदनात्सहसागत्य, कानने साधुसन्निधौ । स्तंभितौ तनयौ वीक्ष्या-रोदिष्टां पितरौ भृशं।।११॥ हाहा पुत्रौ कथं वादः, कृतस्तपस्विना समं । यदि वादः कृतस्तर्हि, रात्रावनागतौ कथं ? ॥१२॥