________________
सा-१
२०७
तदा च पुंडरीकाक्षो, नारदर्षिमभाषत । अहं तु भवतो वाक्ये, स्थितोऽस्मि सर्वदा मुने! ॥२॥ किंतु त्वया पटे यस्या, रूपमालेख्य दर्शितं । पुत्रीत्वेन प्रपन्नाया, या च मत्प्राणवल्लभा ॥३॥ साधिकान्नवमासांश्च, कुक्षाबूढो यया सुतः । गत्वा तस्याः गृहे पुत्र-दुःखिनी तां प्रबोधय।।४।। नारदोऽपि हरेर्वाचं, प्रमाणीकृत्य सत्वरं । जगाम रुक्मिणीगेहं, वाचंयमशिरोमणिः ॥५।। आगच्छंत समालोक्य, रुक्मिणी नारदं मुनिं । विनयात्सहसोत्थाय, तस्यासनमथार्पयत् ॥६॥ अहो पुत्रवियोगेऽपी-यं विनयं न मुंचति । यद्वा महानुभावा या, सा समा सुखदुःखयोः ।।७।। नारदश्चितयन्नित्थं, रुक्मिणी वीक्ष्य दुःखिनीं।वत्से तुभ्यं शुभं भूया-त्तिष्ट तिष्टेत्यभाषत ।।८।। सुसीमवाक्यपानीयै-ज्वलल्लोह इवोच्चकैः।दग्धांगी रुक्मिणी तावत्, सिक्तेति नारदर्षिणा ॥९॥ सूनोवियोमदुःखाग्नि-ज्वालोषशांतयेंजसा।निःश्वासैः रोदनैर्यावद् , दुःखमुक्ता बभूव सा ॥१०।। तदोचे रुक्मिणी दुःखात्, किं वारयसि रोदनात्ात्वयि पश्यति मत्प्राणान्, परित्यक्षाम्यहं जवात्।।११ यया मात्रा धृताधाने, समुत्पन्ना यतः पितुः। एकस्मादुदराज्जातो-ऽभवद्यश्च सहोदरः ॥१२॥ असौ मातापिताऽसौ वा, बांधवः स च दुःखभाकामम ये दुःखवेत्तारो, दूरे सर्वेऽपि ते स्थिताः॥१३॥ जननीतातसौदर्य-मयो मेऽचिंत्यशक्तिमान्।परोपकारिणां धुर्यो-ऽधुना त्वमेव मे पिता ॥१४॥ त्वयि सत्यपि चेत्कश्चिद्-दुष्टो मेऽपहरेत्सुतं । तात किं मे तदैतेन, जीवितेन, प्रयोजनं ॥१५॥ प्राणत्यागं करिष्यामि, शुचाथोऽहं मुनीश्वर ! मैषाकार्षीददोऽकार्य, भीतो जगाद नारदः॥१६॥ तव पुत्रो हृतो नास्ति, वत्से केनापि पापिना । ममैव जीवितं किंतु, हृतं तेन दुरात्मना ॥१७॥ तवैव केवलं नास्ति, ततो दुःखं वृहत्तरं । शल्यमिव प्रजातं तद्, दुःखं ममापि मानसे ॥१८॥ अल्पेनानेहसा ताव-कीनस्य तनयस्य तत् । जनयिष्याम्यहं शुद्धि-मुद्यमेन च विद्यया।।१९।। तदोचे रुक्मिणी तात, भरतस्य त्रिखंडके । दंगे ग्रामे पुरायेषु, शुद्धिः कृता घनैर्जनैः ॥२०॥ तथापि राजमत्यस्तैः, स्वसेवादर्शनोद्यमैः । अवापि न स कुत्रापि, चिंतामणीरिवाभेकः ॥२१॥ रुक्मिणीवाचमाकर्ण्य, जगाद मुनिनारदः । निवेदितं त्वया यत्तत् , समीचीनं विचक्षणे !॥२२॥ परं यथातथा शुद्धिं, त्वत्सना नयामि चेत्।मदीया बिफला वाचा, विज्ञेयास्त्वयका तदा ॥२३॥ कथिते नारदेनेति, दुःखिन्यप्याह रुक्मिणी । भूयात्ते सफला वाणी, मम चिंताविधायिनः ॥२४॥ सत्यं शीलं बचः सत्यं, सत्यां परोपकारितां । नारदस्य विजानंती, शुद्धिशक्ति व्यचारयत् ॥२५॥ सूनुशोकनिवृत्त्यर्थ, नारदः पुनरप्यवक् । दुःखं पुत्रवियोगात्थं. जातमस्ति तवैव न ॥२६॥ पुरापि जातमात्रस्य, भामंडलविराजिनः । पित्रार्भामंडलादेस्त-जातमस्त्यपहारजं ॥२७॥ कियतापि च कालेन, समृद्धिवृद्धिसंयुतैः । समेत्य पितरौ स्वीयौ सुतैस्तैरपि ताषितौ ॥२८॥ विद्यापत्नीप्रभूतद्धि–युक्तस्तवापि नंदनः । करिष्यत्येत्य संतोषं, चिंता त्वं मा व्यधा हृदि ॥२९॥