________________
શાંખ-પ્રદ્યુમ્ન ચરિત્ર
હે કૃતિ તુ આ પ્રમાણે જે મેં કહ્યું તે સવે વાત રૂકિમણીના ઘેર જઈને તેને નિવેદન કર.'
૧૭૬
३१ ॥
11
रुक्मिण्याः कृष्णमानेन, गर्विताया ब्रुवे कथं । इति भीतापि सत्याया वचःस्वीकृत्यस [Sचलत् २५ प्रभूतवातयोगेन, कंपमानेन सा भयात् । गत्वा च रुक्मिणीगेहे, मौनमालब्य संस्थिता ॥ २६ ॥ मौनेन संस्थितामग्रे, तां समालोक्य दूतिकां । रुक्मिणी जल्पयामास, कौटिल्य रहितोज्ज्वला ॥२७॥ यत्कारणं समुद्दिश्य, समागता मदंति के । तत्कारणं ममाग्रे त्वं, जल्पथा निर्भया सती ॥ २८ ॥ रुक्मिण्येत्युदिते दूती, विभ्यती प्रस्खलद्वचाः । सत्यभामोदितं सर्व-मपि वृत्तांतमभ्यधात् ॥ २९ ॥ समाकर्ण्य समाचारं, तया स्वमुखभाषितं । हसित्वा रुक्मिणी प्रोचे, किमत्र प्रश्नकारणं ॥ ३० 11 भगिनी सत्यभामा मे, तथा रुचिर्यथा भवेत् । तद्वचनं तथै वास्तु, प्रमाणगोचरं मम ॥ गच्छ गेहे च सत्यायाः, सत्यायासविधित्सया । मद्वचः कथयित्वेति, विधेहि तां मुदन्वितां ॥ ३२ ॥ रुक्मिण्या वाक्यमादाय, सांतःसतोषकारणं । गत्वा गेहे नमस्कृत्य, सत्यभामामवीवदत् ॥ ३३ ॥ सत्यभामापि तत्प्रोक्तां, वार्तामाकर्ण्य कर्णयोः । चिते विविधामास कुटिलत्वसमन्विता ॥ ३४ ॥ साक्षिणौ च प्रकुर्वेऽहं, बलदेवसनातनौ । तस्या विसंस्थलीभूतं वचनं न भवेद्यथा ॥ ३५ विचार्ये ति निजे चित्रो, दूतिका सत्यभामया। प्रेषिता पुंडरीकाक्ष – बलभद्रकयोः पुरः || ३६ || तयापि स्वामिनीवाक्या - द्गत्वा संसदि भूपतेः । यादवानां समक्षं च, विस्तरेण निरूपितं ॥ ३७॥ बलभद्रमुकुंदाभ्यामपि श्रुत्वा च तद्वचः । कुतूहलप्रसंगेन वरं वरमितीरितं ॥ ३८ ॥ द्वयोरपि सपत्न्यो मिथो विवदमानयोः । प्रविलोकनतोऽस्माकं कुतूहलं भविष्यति ॥ ३९ ॥ ज्ञात्वेति बलभद्रेण, दूत्या हासेन भाषितं । अस्थिन्नर्थे वयं सभ्याः स्मः सकेशव यादवाः॥४०॥ स्वस्वामिन्या पुरो गत्वा, दूतिके! त्वं निरूपय । साक्षिणौ बलदाशा हौं कृताविति गताऽपि सा ॥ ४१ ॥ तव कृत्यं मया स्वामिन्यन्यूनमपि निर्मितं । गत्वा सा निवेद्येति, सत्यभामाममोदयत् ||४२ ॥ सत्यया प्रेषितां दूत, विज्ञाय चापि रुक्मिणी । निजां तां प्रेषयामास संकर्षणाच्युतांतिके ।। ४३ ॥ यथा सर्वसमाचारो ज्ञापितो सत्यभामया । रुक्मिण्याच्यात्मनो दूत्या तथैत योर्निरुपितं ॥ ४४ ॥ मयैव ज्ञापितं पूर्व, विज्ञातमिति भामया । मयाऽपि चेति रुक्मिण्या, ते द्वे अपीत्यतुष्यतां ॥ ४५ ॥ अथाऽन्यदा निशाशेष, इति सा स्वममैक्षत | सुश्वेतवृषभस्थाष्णु - विमानेन ब्रजाम्यहं ॥ ४६ ॥
કૃષ્ણના પ્રેમથી ગર્વિત થયેલી રૂકિમણીને આવી વાત કેવી રીતે કરૂ ?” આ પ્રમાણે ભયભીત બની ઢાવા છતાં સત્યભામાના વચનથી દાસી ત્યાંથી ચાલી. જેમ પ્રચ' પવનથી વેલડી ક ંપે તેમ ભયથી ધ્રૂજતી દૂતી (સંદેશવાહિકા) રૂકમણીના ઘેર જઈને રૂકિમણી આગલ