________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
वने यावत्समागत्य, सत्यभामा विलासिनी । एकाकिन्यपि नो भीता, समीक्षत इतस्ततः।।८५॥ दर्शनीयां प्रसन्नां चा-शोकक्षितिरुहादधः । श्रीदेवी रुक्मिणीरूपां, साकस्मात्तावदैवत ॥८६॥ किमेपास्त्यसुरी देवी, किमेषा व्यंतरी तथा । एषा ज्योतिषिकी किंवा, किंवा वैमानिकी सुरी।।८७॥ यदा भाग्यं भवेद्भरि, देवतादर्शनं तदा । प्रसन्नं तदपि प्रोच्चैर्दश्यते तन्महोदयः ॥८८॥ बहुशः पूजिता पूर्व-माराधिता च भूरिशः । एवंविधा प्रसन्नैषा, मया दृष्टा न जातुचित् ।।८९॥ तां स्फूर्तिसहितां मूर्तिमालोक्य सत्यभामया । हदि विचिंतयामास दक्षत्वयुक्तयाऽपि च ॥९०॥ देवाश्च गुरवो देव्यः, पूजिता मानिताः स्मृताः । समस्तचिंतितार्थानां, पूरणाय भवंत्यलं ।। ९१ ॥ ततोऽहमप्यमूं देवी, पूजयामि सुखाप्तये । चिंतयित्वेत्यगच्छत्सा, वापिकावारिसन्निधौ ।। ९२ ॥ पूतं वापीजलं लब्ध्वा, हस्तांघ्रिमुखधावनैः । तस्या पूजाकृते तूर्ण, सा देशस्नानमाचरत् ।। ९३ ॥ देशस्नानं विधाय द्राग, गृहीत्वा जलजानि च।तां मूर्ति पूजयामास, नार्थिनी विदधाति किं ।। ९४ ॥ शतपत्रः सहस्राग्र—पत्रैश्च सरसीरुहैः । तामचित्वा जगौ साश्रु, रुक्मिण्यागमभीतितः ।। ९५ ॥ दुर्लभ पुण्यहीनानां, देवतादर्शनं भुवि । देवतादर्शनं प्रायः, पुण्येनैव प्रजायते ।। ९६ ॥ यद्यद्य विद्यते प्रोद्य-द्योग्यं भाग्यं ममामलं । तदा ते दर्शन जातं, देवि ! लोचनगोचरे ।। ९७॥ पूजयित्वा स्मितांभोजै-स्तस्याः पादौ प्रणम्य चास्तुवंती सत्यभामापि, संयोज्योचे करद्वयं ।। ९८ ॥ दर्शनं देवदेव्योश्च, मुधा स्यान कदाचन । ततः प्रसद्य देवि ! त्वं, मे प्रसन्नं हरिं कुरु ।। ९९॥ स्वामिन्या वचनं सर्व, मानयेत्किंकरः पुमान्। त्वं विधेहि तथा नाथो, यथा मे कुरुते वचः।। ४०० ॥ रुक्मिण्या उपरि स्नेहरक्तत्वेन करोति न। मय्येव स्नेहमासक्त्या, कुर्याद्देहि तथा वरं ॥१॥ तं रुक्मिण्यामनासक्तं, विरक्तं भक्तवर्जितं । मय्येव रक्तमासक्तं, भक्तपानकरं कुरु ॥२॥ मंत्रण यंत्रितो मत्तो, यथा याति न कुत्रचित् । मत्प्रेमरसमंत्रण, बद्धं कुरुष्व केशवं ॥३॥ देहि देहि वरं मात-र्देवि सत्वरमतिभित । रुक्मिणी च सपत्नी मे, पश्चात्समाग मिष्यति ॥४॥ इत्युदित्वा मुकुंदस्य, वशीकरणवांछया । रुक्मिण्यधिकसौभाग्यं, याचितुं सालुठद् भुवि ।। ५॥ उक्त्वेत्यतीवचाटूनि, वचनानि पुनः पुनः । सत्यभामालुठद्याव-द्रुक्मिणीपादपंकजे ॥६॥ गुल्ममध्यान्मुकुंदस्तु, तावन्निर्गत्य कौतुकी।हस्ततालान् ददद्धास्या-त्सत्यभामामवीवदत् ॥७॥ साधु साधु प्रियेप्रोक्तं, रुक्मिणीचरणार्चनात् । भविष्यति सुसौभाग्य-वशस्ते केशवोऽपि च ॥८॥ ततस्त्वं पूजयेतस्याः , शस्यं चरणवारिजं । मुहुर्मुहुर्नमैतां च, माकार्षीमनसि मदं ॥९॥ मुकुंदोदितमाकर्ण्य, ज्ञात्वा च तस्य चेष्टित।सत्यभामा प्रबुद्धापि, चकिता लजिता भृशं ॥ १०॥ अहो दुरात्मनानेन, गोपालेन मुरारिणा । वंचिताहं कुलीनापि, सपत्नीपादपातनात् ॥११॥ विषादं प्रदधानेति, क्रोधं संवृत्य चेतसि । प्रसन्नवदनेवोचे, श्रृणु मातृमुखाच्युत ! ॥ १२ ॥