________________
स-५
१६५
रुक्मिणी यावदागच्छेद्वने नानाद्रुमान्विते। तावता दक्षिण श्रेण्या भृगाल्या तोरणायितं ॥६५॥ दलैः फलैश्च नीरंधैः कुसुमैर्मण्डपायितं, । कूजितै विविधै रम्यैर्जयजयारवायितं ॥६६॥ समीरचालिताशेष-शाखाग्रैः शाखिसंचयैः । पवित्रचित्रवादिता-यितं कोमलनिःस्वनैः ॥६७॥ कोकिलैर्मधुरध्वान-गीतगानायितं भृशं । ऊध्वींकृत्य कलापांच, मयूरैर्नर्तकायितं ॥६८॥ रुक्मिणीहषीकेशाभ्यां, शोभितं काननं च तत् । यथेंद्राणीसुरेशाभ्यां, वनं हि नंदनाह्वयं ॥६९॥
રુકિમણ અને કૃષ્ણ પરમહવનમાં પ્રવેશ કર્યો, ત્યારે દક્ષિણ દિશામાં ભ્રમરોની શ્રેણિથી જાણે તેરણ બની ગયું, ગીચ પુષ્પ, ફૂલ અને પાંદડાઓ વડે મંડપ જેવું બની ગયું. મનહર ગુંજારવવડે જાણે જય જયારવ થઈ રહ્યો, મંદમંદ વાયુથી કંપાયમાન થયેલા સમસ્તવૃક્ષનાં અગ્રભાગ ઉપર રહેલી ડાળીઓના કમલ અવાજ વડે જાણે વિધ વિધ પ્રકારના વાજિંત્રોને અવાજ આવી રહ્યો. કેયના મધુર અવાજથી ગીતગાન કરાઈ રહ્યાં. પીંછાઓ ઊંચા કરીને મયૂરો વડે નાટક કરાઈ રહ્યુંઃ ઈન્દ્ર ઈન્દ્રાણી વડે જેમ નંદનવન શોભી રહે તેમ રુકિમણી અને કૃષ્ણ વડે પ્રમહવન શોભી રહ્યું.
पुष्करिणीव देवानां, भूरिवारिसमन्विता। तत्रैका वापिका चास्ति, पुंडरीकैमनोरमा ॥७०॥ वेदिकां जातरूपस्य, वररत्नमहीतला । शातकौंभानि सोपाना-न्याधत्ते परितश्च या ॥७१॥ विराजिजिहंसाद्यै-द्वन्द्वचारैविहंगमैः। स्वेच्छया क्रियते क्रीडा, भयत्रीडाविनाकृतैः ॥७२॥ तस्य शस्यांतिके भास्व-दशोकस्तत्र पादपः । छायानिषेविणां पुंसा-मशोकताविधायकः।।७३॥ अधस्तस्य तरोरस्ति, स्फटिकस्योज्ज्वला शिला। निवेश्य रुक्मिणीं तत्र, साक्षाद्देवीमिवावनौ॥७४॥ ताल वृतं प्रसूनानां, स्वहस्ताभ्यां विधाय च । वारणायैव भंगांणां, तत्करे प्रददौ हरिः ॥७५॥ कृत्वा श्रीदेवतारूपं, दत्वा च व्यजनं करे । तत्र तु स्थापयित्वा तां, सत्यासम गतोऽच्युतः ॥७६॥ तत्र गत्वावदद्विष्णुः, प्रिये चेत्तव चेतसि । रुक्मिणीमिलनोत्कंठा, मेलयामि तदा द्रुतं ॥७७॥ सोवाचैका स्वसा मे सा, त्वया या चातिमानिता। मेल्यते यदि सा नाथ, प्रसादस्तन्महान् मम७८ इति प्रोक्ते हरिः प्राह, यद्येवं हरिणेक्षणे । आगच्छ प्रथमं तर्हि, वने त्वमेव सत्वरं ॥७९॥ पश्चान्निकेतने तस्या, गत्वाहमबिलंबितं । भगिनीमानयिष्यामि, मेलनार्थ तव प्रिये ॥८॥ कृष्णोक्तमेवमाकर्ण्य, सत्यभामाब्रवीदथ । यथा प्रसादयस्यार्य, प्रमाणं मे वचस्तथा ॥८१॥ सत्यभामोदितं श्रुत्वा, निर्ययौ श्रीपतिर्बहिः। सत्यभामापि रुक्मिण्य, कृष्णेन सह निर्गता।।८२॥ आगंतव्यं त्वया देवि, तामाह्वातुं प्रयाम्यहं। इत्युक्त्वा पुरतो भूत्वा, गुल्मांतर्गतवान् हरिः।।८३॥ कां कां करिस्यतश्चेष्टां, सपत्न्यौ मिलिते उभे। इति कौतुकतः कृष्ण-स्तत्रैव रहसि स्थितः।।८४॥