________________
ર
શાંખ-પ્રદ્યુમ્ન ત્રિ
त्वया किमविचारेण, कलासंपूर्णयापि च। तेन लिप्तं वपुर्वक्त्रं, वंचितासि मनस्विनि ! ॥ ३६ ॥ कथयित्वेति गोविंदः, करतालान् ददद् बहून् । सत्यभामां जहासोच्चैः, कपोलाक्ष्णोः समुल्लसन्॥३७॥ पूगीफललवंगादि --सुरभि द्रव्यसंयुतं । चर्वितं च तथा वक्त्रे, वांतं चैतन्मुखात्ततः ॥ ३८ ॥ द्रव्येण तेन निंद्येन, समस्तैरपि भृतले । त्वया लावण्यशालिन्या, लिलिपे स्वं वपुः कथं ? ॥३९॥ पद्मिनीजातयः कांता — श्वित्रिणीजातयस्तथा । हस्तिनीजातयश्चापि, शंखिनीजातयो मम ॥ ४० ॥ परं मम त्वमेवासि, सर्वाभ्योऽपि गरीयसी । त्वमेव पुण्यलावण्या, त्वमेव प्राणवल्लभा ॥४१॥ त्वमेव परमाभीष्टा, त्वमेवाग्रह महिष्यसि । तांबूलश्य विलेपेन, दक्षापि वंचिता कथं ॥ ४२ ॥ अभीक्ष्णं कथन्नेवं, त्रिविक्रमोऽहसद्यदा । सत्यभामा तदोवाच रे त्वं हससि मूढ किं ॥ ४३ ॥ पुरा भुक्ता चिरं कालं स्नेहिनी या नितंबिनी । योग्यायोग्यविचारेणैकांते जल्पति नो हि सा । ४४ ॥ अनुजा रुक्मिणी मेsरित, भीष्म भूपालनंदिनी । शिशुपालाय दत्ता सा, हठेन जगृहे त्वया ॥ ४५ ॥ उत्तमा यो भवेल्लोके, कन्यां रूपवतीमपि । परादत्तां न गृह्णाति, सर्वथा हि हठेन सः ॥ ४६ ॥ मयैव मलमूत्राणां. क्षालनेन पवित्रिता । ललिता मयका दुग्ध - पानकारणपालिता ॥ ४७ ॥ अध्यापिता चतुःषष्टि —स्त्रीगुणा वर्धिता मया । समीचीनं तढ़ा जातं, साचेत्वया गुरुकृता ॥ ४८ ॥ स्नेहात्तस्या मलेनापि, शारीरेण विभो त्वया । आनीतेन च चेहे हो, विलिप्यतेतमां मया ।। ४९ ।। तदापि परमं सौख्यं जायते मम विग्रहे । किं पुनर्मुखभूतेन, तांबूलेन हसस्यरे ॥५०॥ 'लज्जितापि मनोधाष्टर्य, कृत्वा सत्या जगौ हरिं । सर्वथा न सतां युक्तं, हसनं कारणं विना ॥ ५१ ॥ वचनं सत्यभामोक्त-मिति श्रुत्वा सनातनः । निजगाद हसित्वा तां साधु साधु त्वयोदितं ॥ ५२ ॥ मया देवि न विज्ञात — मेतावतमनेहसं । भगिन्या मुखतांबूल - मीदृशं तव वल्लभं || ५३ || यदीत्थं वर्तते तस्या - तांबूलं वह्नभं तव । आनीय प्रत्यहं तर्हि, तत्प्रदास्यामि भामिनि ! || ५४ ॥ सत्योचे रुक्मिणीवक्त्र - संभूतं स्वांशुकांचले । बध्ध्वानीतं त्वया नाथ, तत्कथं न प्रियं मम ॥ ५५ ॥ मिथो वार्ता विधायेति, दंपतभ्यां स्थितं क्षणं । तावत्सत्यावदद्विष्णुं, नवां दर्शय मे वधुं ॥ ५६ ॥ जगदे | च मुकुंदेन, भगिनीदर्शनस्पृहा । वर्तते तव चित्ते चेत्, पूरयिष्यामि तां तदा ॥५७॥ इत्युक्त्वा किती वेलां, यावत्स्थित्वा हरिस्ततः । उत्थाय रुक्मिणी गेहे, ययौ स्नेहं वहन् बहुं ॥ ५८ ॥
માટે આપના હિતને માટે કહું છું કે આપ નિર ંતર નિદ્રા લેવા માટે મારે ત્યાં આવશે.
સત્યભામાના વચન સાંભળીને કૃષ્ણે કહ્યું:-દેવી, તું મારી સહુથી મોટી પટ્ટરાણી છે. મારા ઉપર તને ઘણા પ્રેમ છે, તે પ્રિયે, તારા સિવાય મારી ચિંતા ખીજું કોણ કરે ?' આ પ્રમાણે મીઠા વચનથી બુદ્ધિશાલિની સત્યભામાને અંતેષીને માથેથી પગ સુધી એઢીને કૃષ્ણ કપટ નિદ્રા કરતા સૂઈ ગયા, ત્યારે કૃષ્ણે ઉત્તરીય વસ્ત્રના છેડે ખધેલા પેલા સુગંધી દ્રવ્યવાળા