________________
१४८
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
खड्गेन खंडिताः केचित् , केचिद्घाणेन मर्दिताः । अर्दितास्त्वर्धचंद्रेण, मर्दिता मुद्गरेण च॥७०॥ श्रोत्राभ्यां रहिताः केचि-त्केचिच्चक्षुविना कृताः । केचिन्नक्रविहीनाश्च, केचिदुछिन्नमस्तकाः७१ स्वीयेष्टदेवतां केचित् , केचित् स्मरंति मातरं । केचिच्च जनकं केचि-त्क्रंदंति करुणस्वरं ॥७२॥ दुष्टेनैकाकिनानेन, व्यायादिता वयं यदि । पुनयुद्धयामहे केचि जल्पंति पतिता अपि॥७३॥ गोधिकापुच्छवद्वीरा, निर्जीवा अपि केचन । पाणीन् प्रकंपयंति स्वान् , विविधायुधसंयुतान्।७४। सर्वस्यामपि वाहिन्यां, समीक्ष्य क्षोभमुत्कटं । क्रोधेन धावितो रुक्मी, हक्कारयन् स्वसेवकान् ।। ७५॥ आकर्ण धनुराकृष्य, बलेनागत्य रुक्मिणा।मुमुचे निशितो बाणो, राममारणहेतवे ।। ७६ ॥ यस्य पुण्यबलं तस्य, कस्यापि न पराभवः।शरेणेति तदीयेन, विघ्नो नाकारि तत्तनौ ।। ७७ ॥ पर्वे शस्यापि वंशस्यो–घर्षणेऽग्निर्यथैधते । मुशलीरुक्मिणोयुद्धे, क्रोधश्चंडस्तथैवत ॥ ७८ ॥ अतीववर्धमानेन, प्रकोपचित्रभानुना । ज्वालयामासतुः सैन्य-वनं तौ द्वावसन्निभौ ।। ७९॥ तयोलियतोस्तत्तु, यावत्कालोऽभवन्महान् । तावद्रुषाहिपाशाहू, शरं संकर्षणाऽमुचत् ।। ८०॥ पक्षपातकरेणापि, जनकेन समन्वितः । तेन संवेष्टितो रुक्मि-कुमारो बलवानपि ।। ८१॥ यदा संवेष्टितौ तेन, कुमारजनको दृढं । तदारोप्य रथे तो तु, रुक्मिण्यै प्रददे बलः ।। ८२॥ दत्वा रामोऽब्रवीद्भद्रे, बंधुताताविमौ तव । अथैतयोमुखान्मोहा-न्मक्षिकोऽड्डायनं क्रियाः।। ८३ ॥ कृष्णोऽपि शिशुपालेन, बलिनापि समं तथा । चक्रे नानायुधैर्युद्धं, यथा क्षोभोऽभवद्भुवि ।। ८४ ॥ क्रियमाणं रणं रौद्र-मुभाभ्यामपि कोपतः । दर्शदर्श ननौच्चै-नारदो व्योमसंस्थितः ।। ८५ ॥ विरमेन्न मिथो यावत् , संग्रामादेक एकतः । तावद्वाणः क्षुरप्राख्यो, मुमुचे नरकद्विषा ।। ८६ ॥ शिशुपालशिरःश्मश्रु-भ्रूकेशानिखिलानपि । आदाय तेन गोविंद-जयश्रीद्विगुणी कृता ।। ८७ ॥ केशयानेन नो याताः, कुंतला एव केवलं । किंतु याताः रिपोः शौर्य-चैतन्यकांतयोऽखिलाः८८ देहाच्छौर्यादिकं नष्ट–मेतस्य यदि भूभुजः । तदा किं मारयाम्येनं, निर्वीर्य गतचेतनं ॥८९॥ इति संचित्य गोविंदो, विच्छायं च दिवेदुवत् । विमुच्य शिशुपालेशं, जीवंतं कृपयाऽचलत्॥९०॥
પરાક્રમી વિણ ક્રોધથી શિશુપાલની સન્મુખ અને બલભદ્ર સમસ્ત સેનાને ઉદ્દેશીને આગળ વધ્યા. એકાકી કૃષ્ણ અને શિશુપાલનું ભયંકર યુદ્ધ જેઈને પરાક્રમી એવા સૈનિકે પણ ક્ષુબ્ધ બનીને દૂર દૂર જઈને ઊભા રહ્યા. સિંહ સમાન વિષ્ણુ અને હાથી સમાન શિશુપાલના યુદ્ધને જોઈને લેકે કલ્પના કરતા હતા : જંગલી પશુઓ જેવી સેનાની સાથે સિંહ સમાન બલભદ્ર યુદ્ધ કરી રહ્યા છે. તેના એક હુંકારાથી અથવા સિંહનાદથી સઘળા સૈનિકે કાયરની જેમ ચારે બાજુ નાસી ગયા. તેમાં કેટલાક તલવારથી ખડિત થયા, કેટલાક બાણથી વિંધાઈ ગયા. કેટલાક અર્ધ ચન્દ્ર બાણવડે કપાઈ ગયા, કેટલાક મુદગરથી ચૂરચૂર થઈ ગયા. કેટલાક