________________
सग-४
૧૩૯
प्रमाणीकृत्य निर्देशं, सेवकैर्वसुधाविभोः । कंदर्पमूर्तिपूजार्थ, दत्ता गंतुं च रुक्मिणी ॥६३ ॥
સેવકના મુખે સઘળા વૃત્તાંત જાણીને શિશુપાલે પિતાની કુશલકામના કરતી, પિતાના પ્રત્યે અનુરાગિણી માનીને રૂક્ષ્મણીને યાત્રા માટે પ્રમદવનમાં જવાની સંમતિ આપી. રાજાની આજ્ઞાનું પ્રમાણ કરીને સેવકોએ કામદેવની પૂજાને માટે રૂક્ષ્મણ આદિ સ્ત્રીઓને નગર બહાર orqn aधी.
अंतराले समुत्पन्न–प्रत्यूहब्यूहनाशनात् । मोदमाना चचालासा-वपि पूजनदंभतः ॥ ६४ ॥ गीयमाना मृगाक्षीभिर्यावत्सा कानेन गता।स्थित्वान्यस्त्रीयुता ताव-देतांजगौ पितृस्वसा ।। ६५॥ निकुंजे त्वरितं गत्वा, मनोभूमूर्तिपूजया । त्वमेवैकाकिनी भद्रे , साधयस्व समीहितं ॥६६॥
વચમાં આવેલા વિદને નાશ થવાથી ખૂશ થયેલી રૂકિમણી આગળ ચાલી. સુહાગણ સ્ત્રીઓ વડે મંગલ ગીત ગવાતા પ્રમદ વનની નજીકમાં આવ્યા ત્યારે ફેઈ પંડિતા એ બધી સ્ત્રીઓને બહાર રોકીને રૂકિમણીને કહ્યું : “બેટા, તું નિકુંજમાં એકલી જા. ત્યાં કામદેવની પૂજા કરીને તારૂં ઇચ્છિત સાધ.” प्रायः कामवशा कांता, परिवारमपि त्यजेत् । निर्यात्येकाकिनी चापि, करोति चित्तचिंतितं ।। ६७ ॥ परित्यज्य ततः सर्व-मप्यात्मनः परिच्छदं । पूजोपहारमादाय, मंदं मंदं विनिर्गता ॥ ६८॥ ध्यायंती हृदि गोविंद-मितस्ततस्तमेव चावीक्षमाणा दृशागच्छ-त्सार्थभ्रष्टेव कामिनी ॥ ६९॥ जराभीरुस्फुरन्मूर्ति--पार्श्वे सा यावदागता । गुल्मांतरस्थितेनापि, तावन्मुरारिणैक्ष्यत ॥ ७० ॥ किं देवी किन्नरी किंवा, विद्याधरी समस्त्यसौ।शशंकेतां निरीक्ष्येति, मानसे पुरुषोत्तमः ।। ७१॥ श्यामधम्मिलचिह्नन, पार्वणेन कलाभृता । सहाननेन तुल्यत्वं, प्रदधौ सा कुमायेपि ॥७२॥ नेत्रयोः खंजनौपम्यं, कंठे कंबुसमानतां । कुचयोः कलशाकारं, बिभ्रती शुशुभे च सा ॥७३॥ सौकुमार्य च रक्तत्वं, पाण्योः कोकनदोपमं । भूजयोर्मालतीमाल्य-समानत्वं दधार सा ॥ ७४ ॥ हंसगेन समादाय, स्थूलत्वं जठरादिव । नितंबौ विहितावस्या-स्ततोऽस्त्येषा कृशोदरी ॥७५ ॥ जंघयोः कदलीस्तंभ-सन्निभत्वमथातुलं । कूर्मपृष्टतुलामंघयो-स्ताम्रस्निग्धच्छवि नखे ।। ७६॥ यदा सा दूरतो दृष्टा, तदा देव्यादिकल्पना । जनिता पद्मनाभेन, रुक्मिण्यागमचेतसा ।। ७७॥ पार्श्वे स्थितवती जाता, यदा च सा तदा हरिः । नारीयमिति निश्चित्य, तस्या रूपेण विस्मितः।।७८ देहे षोडशशृंगार-परिधानाय युक्तितः । किमीदृश्यप्यहो नारी, धात्रा रूपेण जन्यते ॥७९॥ रूपलावण्यचातुर्य, सर्वसामपि योषितां । समादाय विधातैता-मेव वा किमजीघटत् ॥ ८ ॥ सर्वलक्षणसंपूर्णी, तामालोक्येति माधवः । चित्ते विचितयन् याव-न्निकुंजतो विनिर्गतः ॥ ८१ ॥