________________
श्रीअजितप्रभुचरितम् सर्ग:-१ न दूयेऽप्यणुमात्रं यज्जाने निर्मन्तुरस्म्यहम् । दूये तु यज्जिनमतं, निष्कलङ्क कलब्यते ॥७०३॥ लोको ह्यबद्धवदनो, वक्ता यत् परमार्हती । एषैवं चेष्टते हन्त, तद्धर्मोऽपीदृशोऽसकौ ॥७०४।। त[दि]दानीं मया कार्य, तत् किञ्चिद्येन सत्वरम् । अपगच्छति मालिन्यं, तमिस्रमिव भानुना' ॥७०५।। नेपथ्यान्तरितो धात्रीधव: पल्यङ्कमाश्रितः । श्रुत्वा तदखिलं चित्ते, दध्याविति विशुद्धधीः ॥७०६।। स्वलोचनाभ्यामद्राक्षमहं विद्याभृतं नरम् । अस्या वचःक्रमश्चायं, किमिदं घटते नु तत् ? ॥७०७।। इयं विधिव[शा]च्छीलविकला यदि सम्भवेत् । दिव्यादपि न शुध्येत्तद्दिव्यस्य विषमा गतिः ॥७०८।। विशुद्धैवेयमथवा, जाने नारीमतल्लिका । कुतः कालुष्यकलना, निर्मले मानसाम्भसि ॥७०९॥ ततो दिव्यादियं शुद्धिं, सम्प्राप्य विधिनाऽधुना । स्वशीलसौरभं विश्वे, प्रख्यापयतु सर्वतः ।।७१०।। इत्थं ध्यायति भूनाथे, प्रातःसमयबोधकः । तारस्वरं पपाठेति, पटुर्मङ्गलपाठकः ॥७११॥ 'याऽभून्मालिन्यभीर्दैवात्, प्राची सा विगलत्तमाः । अह्नाय शुध्यतीदानीमिने सम्भावनोन्मुखे' ॥७१२॥ श्रुतमागधवाक्योऽथ, स्वगतं दध्यिवान्नृपः । उपश्रुतिरियं देव्याः, शुद्धिमाख्याति निश्चितम् ॥७१३।।